________________
कृदन्ते द्वितीयः पादः
तुन्दपरिमार्जः अन्यः । शोकापनुदः शोकस्य हर्ता । शोकापनोदः अन्यः । स्तम्बेरमो हस्ती । स्तम्बे रन्ता अन्यः । कर्णेजपः सूचकः । कर्णे जपिता अन्यः । मूलानि विभुजति मूलविभुजो रथः । कौ मोदते कुमुदम् । द्वाभ्यां पिबति द्विपः । धर्मा धर्मप्रदः । शास्त्रेण प्रजानाति शास्त्रप्रज्ञः इत्यादि ।। ५६ ।।
भजः विणू । ५७ ।
नाम्नः परात् भजेः विण् प्रत्ययो भवति ।
अर्धभाक् । वकारः विण्—क्विपोः समत्वार्थः । तेन इह क्विप् न भवति ॥ ५७ ॥ स्पृशः अनुदकात् क्विप् । ५८ ।
'उदक' वर्जात् नाम्नः परात् स्पृशतेः 'क्विप्' प्रत्ययो भवति । घृतं स्पृशति घृतस्पृक् । 'अनुदकात्' इति 'उदक' सदृशम् अनुपसर्गनाम गृह्यते तेन इह न भवतिउपस्पृशति । अनुदकात् इति किम् ? उदकस्पर्शः ॥ ५८ ॥
अदः अनन्नात् । ५९
'अन्न' वर्जात् नाम्नः परात् अदेः 'क्विप्' प्रत्ययो भवति ।
सस्यम् अत्ति सस्यात् । अनन्नात् इति किम् ? अन्नादः ॥ ५९ ॥ मन् वन् क्वनिप् विच् च क्वचित् । ६० ।
Jain Education International
[ २७३
नाम्नः परात् धातोः 'मन्' आदिप्रत्यया लक्ष्यानुसारेण भवन्ति चकारात् क्विप् च । मन् - सुशर्मा । शर्म । धर्म | हेम । दाम । वन्- विजावा । अग्रेगावा । क्वनिप्– प्रातरित्वा । विच्-विट् । जागः । कीलालपाः । क्विप्-सत् । प्रसत् । अन्तरिक्षसत् । सूः । अण्डसूः । प्रसूः । द्विट् । मित्रद्विट् । मित्रधुक् । गोधुक् । र्युङ् । अश्वयुक् । तत्त्ववित् । प्रवित् । काष्ठभित् । प्रभित् । छित् । भवच्छित् । प्रजित् । शत्रुजित् । नीः । सेनानीः । विराट् । राजराट् | ऋतुम् ऋतवे ऋतुप्रयोजनो वा यजति इति ऋत्विक् । 'क्वचित्' ग्रहणं प्रयोगानुसरणार्थम् तेन सर्वस्मात् धातोः एते प्रत्ययाः किन्तु यथादर्शनम् । तथा क्वचित् अनामपूर्वात् अपि ॥ ६० ॥
क्रव्यात् क्रव्यादौ आम पक्वादौ । ६१ । एतौ यथासंख्यं आमादिनि पक्वादिनि च अर्थे निपात्येते ।
क्रव्यम् अत्ति क्रव्यात् आममांसभक्षकः । क्रव्यादः पक्वमांसभक्षकः । वृत्तौ एव 'क्रव्य' शब्दः पक्वमांसे वर्तते । सिद्धौ प्रत्ययौ, विषयनियमार्थं वचनम् ॥ ६१ ॥
॥ इति श्रीमलयगिरिविरचिते शब्दानुशासने वृत्तौ कृति द्वितीयः पादः ॥
१ प्रथमैकवचनम् - युङ् युञ्जौ युञ्जः । २. आममांसवाची अपि 'कव्य' शब्दः (क्रव्याद' इति निपातनसामर्थ्यात् वृत्तौ पक्वमांसे वर्तते अथवा कृत्त - विकृत्त शब्दस्य पक्वमांसार्थस्य पृषोदरादित्वात् 'कव्य' आदेशः " इति हैमे ५।१।१५१ । सूत्रे स्पष्टीकरणम् ।
३५
For Private & Personal Use Only
www.jainelibrary.org