________________
२७२ ]
आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् ।
मेघ ऋति-भय- अभयात् कृञः खः । ५२ । एभ्यः कर्मभ्यः परात् कृञः खः प्रत्ययो भवति ।
मेघंकरः । ऋतिंकरः । भयंकरः । अभयंकरः ॥ ५२ ॥ शमः संज्ञायाम् अत् । ५३ । शमः परात् धातोः संज्ञायाम् 'अत्' प्रत्ययो भवति ।
शङ्करः । शम्भवः । ‘हेतु' आदिविवक्षायामपि परत्वात् अयमेव प्रत्ययः - शङ्करा नाम परिव्राजिका । संज्ञायाम् इति किम् ? शङ्करी विद्या ॥ ५३ ॥
स्थः कः । ५४ ।
Jain Education International
नाम्नः परात् तिष्ठतेः कः प्रत्ययो भवति ।
समस्थः। विषमस्थः । परत्वात् अयं 'शमः संज्ञायाम् अत्' [ कृत् पा० २ सू० ५३ ] इति बाधते । शंस्थो नाम कश्चित् । असरूपत्वात् क्विपः समावेशः -- संस्थाः ॥ ५४ ॥ दुहः घः च । ५५ । प्रत्ययो भवति, घकारश्व अन्तादेशः ।
नाम्नः परात् दुहेः कः
कामं दुग्धे कामदुधा ॥ ५५ ॥
'विहग' आदयः ५६ ।
'विहग' आदयः 'डकार' आदिप्रत्ययान्ता यथादर्शनं निपात्यन्ते ।
विहायसा गच्छति विहगः, विहङ्गः, विहङ्गमः । सुग-दुर्गे आधारे । उरसा गच्छति उरगः । फलानि गृह्णाति फलेग्रहिः । आत्मानं बिभर्ति आत्मंभरिः । ब्रह्माणं हन्ति टक् ब्रह्मन्नः । राजानं हन्ति राजधः । पाणिम् पाणिना वा हन्ति इति पाणिघः । ताडघः । भृ-वृ-तृ-धारि-जि-दमि-तपि सहेः संज्ञायाम् - विश्वंभरा वसुधा । पतिवरा कन्या । रथंतरं साम । वसुंधरा पृथ्वी । शत्रुंजयः पर्वतः । अरिन्दमः शत्रुन्दमः शत्रुंतपः, शत्रुंसहः एवंनामानो राजानः । संज्ञायाः अन्यत्र कुटुम्बं बिभर्ति कुटुम्बभारः । वाचंयमः व्रती । वाग्यामः अन्यः । द्विषन्तं तापयति इति द्विषन्तपः, परंतपः । अण्यन्तस्य न भवति - द्विषत्तापः, परतापः । इह न स्यात् - द्विषतीतापः । भगं दारयति इति भगन्दरो व्याधिः । पुरं दारयति इति पुरन्दरः । 'पुर' शब्दात् तु न भवति -पुरदारः । इरा सुरा तया माद्यति इरम्मदः । उग्रं पश्यति उग्रंपश्यः । सूर्यम् अपि न पश्यन्ति असूर्यपश्या राजदाराः एवं नाम गुप्ता यत अपरिहार्यदर्शनं सूर्यम् अपि न पश्यन्ति इत्यर्थः । तुन्दं परिमार्ष्टि तुन्दपरिमृजः अलसः ।
१. एतत् चित्रवन्तस्य प्रथमैकवचनम् । २ अत्र रकारान्तः 'पुर्' शब्दः निपातनाश्च 'पुर्' इत्यस्य 'पुरं' साधनीयम् । अकारान्तात् तु 'पुर' शब्दात् ' पुरदार:' इति ।
For Private & Personal Use Only
www.jainelibrary.org