________________
कृदन्ते द्वितीयः पादः
[२४ 'कूल' शब्दात् कर्मणः परात् उत्पूर्वात् रुजे: वहेश्च परः 'खश्' प्रत्ययो भवति । कूलमुद्रुजः । कूलमुद्रुहः ॥ ४४ ।।
पाणेः ध्मः । ४५। 'पाणि'शब्दात् कर्मणः परात् धमतेः 'खश्' प्रत्ययो भवति । पाणिधमः । पाणिंधमाः पन्थानः इति तद्योगात् यथा 'वृक्षा हसन्ति' इति ॥ ४५ ॥
घटी-खरी-नाडी-नासिका-वातात् धेटश्च । ४६ । एभ्यः कर्मभ्यः परात् धेटेः धमतेश्च परः 'खश्' प्रत्ययो भवति ।
घटिंधमः, घटिंधयः । खरिंधमः, खरिंधयः । नाडिंधमः, नाडिंधयः । नासिकंधमः, नासिकंधयः । वातंधमः, वातंधयः ॥ ४६ ॥
शुनी-स्तनात् । ४७। आभ्यां कर्मभ्यां परात् धेटः 'खश्' प्रत्ययो भवति । शुनिधयः । स्तनंधयः ॥ ४७ ॥
करीष-अभ्र-कूलात् कषः । ४८। एभ्यः कर्मभ्यः परात् कषेः 'खश्' प्रत्ययो भवति ।। करीपंकषा वात्या । अभ्रंकषः प्रासादः । कूलंकषा नदी ॥ ४८ ।।
सर्वात् सहश्च । ४९। 'सर्व' शब्दात् कर्मणः परात् सहेः कषेश्च 'खश्' प्रत्ययो भवति । सर्वसहः । सर्वकषः ॥ ४९ ॥
मित-नख-परिमाणात् पचः । ५० । 'मित' आदिभ्यः कर्मभ्यः परात् पचेः 'खश्' प्रत्ययो भवति । सर्वतः मानं परिमाणम्-प्रस्थादि । मितंपचा ब्राह्मणी। नखंपचा यवागूः । प्रस्थंपचा स्थाली ॥ ५० ॥
प्रिय-वशात् वदः । ५१ । आभ्यां कर्मभ्यां परात् वदेः 'खशू' प्रत्ययो भवति । प्रियंवदः । वशंवदः ॥ ५१ ॥
१ पाणिंधमपुरुषयोगात् पन्था अपि पाणिधमः इति औपचारिकं पदम् । एतस्य च सूचनाय अग्रे दृष्टान्तं दर्शयति । २ अत्र सूत्रे हैमे ५।१।१२० सूत्रे तथा शाकटायनीये ४।३।१४९। सूत्रे 'मुष्टि शब्दः समधिको वर्तते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org