________________
२७०.] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् । प्रयोगः-"शोर्षे' सृतं पृष्ठतः” [ ] "शीर्पोपहारादिभिः आत्मदुःखैः [ ] इति । " निर्देशादेव शिरसः 'शीर्ष'भावः” इति एके ॥ ३७ ॥
मन्यात् । ३८ । कर्मणः परात् मन्यतेः णिन् प्रत्ययो भवति । पण्डितमानी । 'श्य'निर्देशः उत्तरार्थः ॥ ३८ ॥
कर्तुः खश् । ३९। . प्रत्ययार्थकर्तुः कर्मणः परात् मन्यतेः 'खश्' प्रत्ययो भवति ।
पण्डितम् आत्मानं मन्यते पण्डितंमन्यः। सर्वज्ञंमन्यः । असरूपत्वात् णिन् अपिपण्डितमानी । कर्तुः इति किम् ? दर्शनीयमानी चैत्रस्य । शकारः श्यार्थः ।। ३९ ॥
__ एजेः । ४०। कर्मणः परात् एजयतेः 'ख' प्रत्ययो भवति । अङ्गमेजयः ॥ ४० ॥
वह-अभ्रात् लिहः । ४१ । आभ्यां कर्मभ्यां परात् लिहे: 'ख' प्रत्ययो भवति । वहंलिहो गौः । अभ्रंलिहः प्रासादः ॥ ४१ ॥
ललाट-वात-शर्धात् तप-अज-हाकः । ४२। ललाट-वात-शर्धेभ्यः कर्मभ्यः यथासंख्यं तपतेः अजतेः हाकश्च परः 'खश्': प्रत्ययो भवति ।
ललाटंतपः सूर्यः । वातमजाः मृगाः । शर्धजहाः माषाः । हाकः ककारो 'हाङ् निवृत्त्यर्थः ॥ ४२ ॥
विधु-अरुष्-तिलात् तुदः । ४३ । एभ्यः कर्मभ्यः परात् तुदेः 'ख' प्रत्ययो भवति । विधुतुदः । अरुन्तुदः । तिलन्तुदः ॥ ४३ ॥
कूलात् उद्बुजि-वहेः । ४४। १ शीर्षे स्थितं पृष्ठतः" इति मुद्रित हैमे ५।१।८२ । २ ‘शीर्षोपहारादिभिः" इति मुद्रित शाकटायनीये-४१३१११८।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org