________________
कृदन्ते द्वितीयः पादः
[ २६९ प्रात् दा-ज्ञः । ३१ । कर्मणः पराभ्यां दा-ज्ञाभ्यां परः 'ड' प्रत्ययो भवति । सर्वप्रदः । पथिप्रज्ञः । प्रात् इति किम् ? गोसंदायः ॥ ३१ ॥
आतः अनुपसर्गात् अह्वा-वा-मः । ३२ । कर्मणः परात् अनुपसर्गात् ह्वा-वा-मावर्जितात् आकारान्तात् धातोः 'ड' प्रत्ययो भवति । अणः अपवादः । धनदः । तनुत्रम् । अह्वा-वा-मः इति किम् ? जिनह्वायः । तन्तुवायः । घान्यमायः ॥३२॥
गः टक । ३३ । कर्मणः परात् अनुपसर्गात् गायतेः टक् भवति । अणः अपवादः । वक्रगः । वक्रगी। अनुपसर्गात् इति किम् ? वक्रसंगायः ॥ ३३ ॥
अमनुष्ये हनः । ३४ । कर्मणः परात् हन्तेः अमनुष्ये कर्तरि टक् प्रत्ययो भवति ।
वातघ्नं आविकं क्षीरम् । पतिघ्नी रेखा । अमनुष्ये इति किम् ? आखुधातः शूद्रः । पापघातो यतिः । 'नरघातो हस्ती' इत्यादौ अनभिधानात् न भवति ॥ ३४ ॥
जाया-पतेः चिह्नवति । ३५ । जाया-पतिभ्यां कर्मभ्यां परात् हन्तेः चिह्नवति कर्तरि टक् भवति । चिह्न लक्षणम्शुभाऽशुभसूचकं शरीरस्थं मष-तिलकादि । जायानो ब्राह्मणः । पतिनी कन्या । मनुष्यार्थः आरम्भः ॥ ३५ ॥
हस्ति-बाहु-कपाटात् शक्तौ । ३६ । 'हस्ति'आदिभ्यः कर्मभ्यः परात् हन्तेः शक्तौ गम्यमानायां टक् प्रत्ययो भवति । । हस्तिन्नः पुरुषः-हस्तिनं हन्तुं शक्तः इत्यर्थः । एवम् बाहुन्नः । कपाटनः चौरः । हस्ति-बाहु-कपाटात् इति किम् ? चौरधातः मनुष्यः ॥ ३६ ॥
कुमार-शीर्षात् णिन् । ३७ । आभ्यां कर्मभ्यां परात् हन्तेः 'गिन्' प्रत्ययो भवति । कुमारघाती। शीर्षघाती । शिरःपर्यायः 'शीर्ष'शब्दः अकारान्तोऽपि अस्ति । तथा च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org