________________
२६८ ] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् ।
वयः-अनुद्यमे । २४ । __प्राणिनां कालकृता अवस्था यौवनादि वयः । उद्यमः उत्क्षेपणम् तदभावः अनुद्यमः । तयोः गम्यमानयोः कर्मणः परात् हुञः अत् प्रत्ययो भवति ।
अस्थिहरः । विषहरः मणिः । वयः-अनुद्यमे इति किम् ? भारहारः । क्रियमाणः संभाव्यमानः वा उद्यमः वयसि गम्यते इति उद्यमार्थं वयोग्रहणम् ॥ २४ ॥
शक्ति-लाङ्गल-अङ्कुश-ऋष्टि-यष्टि-तोमर-घटात् ग्रहः । २५ । 'शक्ति' आदिभ्यः कर्मभ्यः परात् ग्रहे: अत् प्रत्ययो भवति ।
शक्तिग्रहः । लाङ्गलग्रहः । अङ्कशग्रहः । ऋष्टिग्रहः । यष्टि ग्रहः । तोमरग्रहः। घटग्रहः । "नामग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्” न्यायसंग्रहे न्याय १६ पृ०१६] घटीग्रहः ॥२५॥
सूत्रात् धारणे । २६ । 'सूत्र'शब्दात् कर्मणः परात् धारणे अर्थे वर्तमानात् ग्रहेः अत् प्रत्ययो भवति । सूत्रग्रहः । धारणे इति किम् ? यो हि सूत्रम् उपादत्ते स सूत्रग्राहः ॥ २६ ॥
शीलि-कामि-भक्षि-आचरि-ईक्षक्षमः णः । २७ । कर्मणः परेभ्यः एभ्यः णः प्रत्ययो भवति ।
धर्म शीलयति धर्मशीलः । धर्मशीला । धर्मकामः । धर्मकामा । वायुभक्षः । कल्याणा चारः । सुखप्रतीक्षः । क्लेशक्षमः । कर्मणि शीलादौ बहुव्रीहिणा अपि एते सिध्यन्ति, अण्बाधनार्थं तु वचनम् ॥ २७ ॥
आशिषि हनः डः । २८ । आशिषि गम्यमानायां कर्मणः परात् हन्तेः डः प्रत्ययो भवति । तिमि वध्यात् तिमिहः ॥ २८ ॥
क्लेश-तमसः अपात् । २९ । 'क्लेश'-'तमः' शब्दाभ्यां परात् 'अप' पूर्वात् हन्तेः 'ड' प्रत्ययो भवति । क्लेशापहः । तमोऽपहः । अनाशीरर्थ आरम्भः ।। २९ ।।
समः ख्यः । ३०। कर्मणः परात् 'सं'पूर्वात् 'ख्या' धातोः 'ड' प्रत्ययो भवति । गोसंख्यः ।। ३० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org