________________
कृदन्ते द्वितीयः पादः
[ २६७
आदिकरः । कारकरः । अरुष्करः । जङ्घाकरः । बाहुकरः । अहस्करः । एककरः । द्विकरः । संख्याकरः । धनुष्करः । भक्तकरः ॥ १८ ॥
हेतु तच्छील अनुकूलेषु अशब्द - श्लोक-कलह-गाथा-वैर-चाडसूत्र-मन्त्र- पदात् । १९ ।
शब्दादिवत् कर्मणः परात् कृञः हेत्वादिषु कर्तृषु टः प्रत्ययो भवति ।
यशस्करी विद्या । तच्छीले पूजाकरः । अनुकूले प्रेषणकरः । हेतु तच्छील- अनुकूलेषु इति किम् ? कुम्भकारः । शब्दादिप्रतिषेधः किम् ? शब्दकारः । श्लोककारः । कलहकारः । गाथाकारः । वैरकारः । चाटुकारः । सूत्रकारः । मन्त्रकारः । पदकारः । तच्छीले ताच्छीकिश्व प्रत्ययः उदाहार्यः ॥ १९ ॥
क्षेम- प्रिय मद्र भद्रात् ख- अणौ । २० ।
'क्षेम' आदिभ्यः कर्मभ्यः परात् कृञः 'ख' - 'अण्' प्रत्ययौ भवतः ।
क्षेमंकरः, क्षेमकारः । प्रियंकरः, प्रियकारः । मद्रंकरः, मद्रकारः । भद्रंकरः, भद्रकारः । हेत्वादिविवक्षायाम् अपि परत्वात् इमौ एव प्रत्ययौ । 'योगक्षेमकरी लोकस्य' इति तदन्तविज्ञानाभावात् न भवेतः ॥ २० ॥
इः स्तम्ब शकृतः व्रीहि वत्से । २१ ।
' स्तम्ब '-' शकृत्' शब्दाभ्यां कर्मभ्यां परात कृञः यथासंख्यं वत्से व्रीहौ च कर्तरि 'इ' प्रत्ययो भवति ।
स्तम्बकरिः व्रीहिः । शकृत्करिः वत्सः । अन्यत्र स्तम्बकारः । शकृत्कारः ॥ २१ ॥ - नाथात् पशौ ञः । २२ ।
दृति- नाथाभ्यां कर्मभ्यां परात् हृञः पशौ कर्तरि 'इ' प्रत्ययो भवति । दृतिहरिः, नाथहरिः पशुः । पशौ इति किम् ? दृतिहारः । नाथहारः ॥ २२ ॥ आङि शीले अत् । २३ ।
कर्मणः परात् शीले अर्थे वर्तमानात् हृञः आङि उपपदे अत् प्रत्ययो भवति । पुष्पाहरः । यस्य पुष्पाहरणे न स्वभावात् अन्यो हेतुः स एवमुच्यते । आङ इति किम् ? पुष्पाणिहर्ता । शीले इति किम् ? पुष्पाहारः । सुखाहारः इति । अशीले अनुद्यभे उत्तरेण अत् प्रत्ययः ॥ २३॥
१. इमौ प्रत्ययौ सूत्रोक्तौ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org