________________
२६६ ] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् । खे शेते खशयः । 'गिरिशः' इति लोमादित्वात् शः ॥ १२ ॥
'उत्तान' आदेः कर्तुः । १३ । — उत्तान 'आदिभ्यः कर्तृभ्यः परात् शीङः अत् प्रत्ययो भवति । उत्तानशयः । अवमूर्धशयः । — उत्तान' आदयः प्रयोगगम्याः ॥ १३ ॥
'पार्श्व'आदिभ्यः । १४ । एभ्यः परात् शीङः अत् प्रत्ययो भवति ।।
पार्श्वभ्यां शेते पार्श्वशयः । उदरशयः । दिग्धेसहशयः । 'पार्श्व' आदयः प्रयोगगम्याः ।। १४ ।।
कर्मणः अण् । १५। कर्मवाचिनः नाम्नः परात् धातोः अण् प्रत्ययो भवति ।
कुम्भकारः । चर्चापारः । ‘ग्रामं गच्छति' 'आदित्यं पश्यति ' ' हिमवन्तं शृणोति' इत्यादौ प्राप्यात् कर्मणः न भवति, अनभिधानात् । 'महान्तं कुम्भं करोति' इत्यादौ च सापेक्षत्वात् ॥ १५ ॥
अर्हतेः अः । १६ । कर्मणः परात् अर्हतेः अः प्रत्ययो भवति । पूजार्हः । पूजार्हा ॥ १६ ॥
किम्-यत्-तत्-बहोः कृत्रः अः । १७ । 'किम् ' आदिभ्यः कर्मभ्यः परात् कृञः अः प्रत्ययो भवति ।
किङ्करः । यत्करः । तत्करः । बहुकरः । 'बहुकरी' इति संख्यावचनात् उत्तरेण टः । “ जातिः इदानी किंकरी" [ ] इति हेत्वादौ टः ।। १७ ॥ दिवा-विभा निशा-प्रभा-भास्-कर्तृ-नान्दी-लिपि-लिवि-बलि-चित्र क्षेत्रअन्त-अनन्त-आदि-कार-अरुस्-जङ्घा-बाहु-अहः-संख्या-धनुर
भक्तात् टः।१८। एभ्यः कर्मभ्यः परात् कृञः टः प्रत्ययो भवति । 'संख्या' इति अर्थ-स्वरूपग्रहणम् ।
दिवाकरः । विभाकरः । निशाकरः । प्रभाकरः । भास्करः । कर्तृकरः । नान्दीकरः । लिपिकरः । लिविकरः । बलिकरः । चित्रकरः । क्षेत्रकरः । अन्तकरः । अनन्तकरः ।
१. “ दिग्धेन सह शेते"-शा. ४।३।१६५ । दिग्धेन-लिप्तेन ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org