________________
कृदन्ते द्वितीयः पादः
[२६५ ब्रह्मवादी । ६। 'ब्रह्म'कर्मणः परात् वदेः गिन् प्रत्ययो भवति ।
ब्रह्मवादिनों वदन्ति । अशीलार्थम् , अजात्यर्थम् , असरूपनिवृत्त्यर्थं च वचनम् ॥ ६ ॥
गमेः ड-ख-खडः । ७। नाम्नः परात् गमेः धातोः पराः ड ख खड् इत्येते प्रत्यया भवन्ति ।
तुरगः । भुजगः । प्रवगः । प्लवगः । पन्नगः । अन्तगः । अनन्तगः । अध्वगः । दूरगः । पारगः । सर्वगः । सर्वत्रगः । ग्रामगः । ख—सुतंगमः । तुरंगमः । भुजंगमः । प्रवंगमः । प्लवंगमः । मितंगमः । अमितंगमा हस्तिनी । हृदयंगमा वाक् । खड्-तुरङ्गः । भुजङ्गः । प्रवङ्गः । बहुलाधिकारात् यथाप्रयोगदर्शनं व्यवस्था ॥ ७ ॥
टः पुरः-अग्रत:-अग्रेः सर्तेः । ८। एभ्यः परात् सर्तेः टः प्रत्ययो भवति ।
पुरः सरति पुरःसरः । अग्रतःसरः । अग्रम् अग्रेण वा सरति अग्रेसरः । एकारान्तत्वं सूत्रे तथानिर्देशात् । टकारः ङीप्रत्ययार्थः ।। ८ ।।
पूर्वात् कर्तुः ।९। 'पूर्व 'शब्दात् कर्तुः परात् सर्तेः टः प्रत्ययो भवति । पूर्वः सरति पूर्वसरः ॥ ९ ॥
भिक्षा-सेना-आदायात् चरेः । १०। एभ्यः परात् चरेः टः प्रत्ययो भवति । भिक्षाचरः । सेनाचरः । आदायचरः ॥ १० ॥
आधारात् । ११ । आधारवाचिनः नाम्नः परात् चरेः टः प्रत्ययो भवति । कुरुषु चरति कुरुचरः । आधारात् इति किम् ? कुरून् चरति ॥ ११ ॥
शीङः अत् । १२ । आधारवाचिनः नाम्नः परात् शीङः अत् प्रत्ययो भवति ।। १. अत्र "निपात्यते” इति निर्देशः शाकटायने -४।३।१८५- स एव च समुचितः । २. शाकटायने तत्रैव सूत्रे 'ब्राह्मणाः' इति अत्र विशेष्यपदम् ।
३४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org