________________
कृदन्ते द्वितीयः पादः समान-अन्य-त्यदादेः गौणात् दृशेः आप्ये सक्-क्विपू-टकः । १ ।
समानशब्दात् अन्यशब्दात् त्यदादेश्च गौणात् परात् दृशेः धातोः कर्मणि सक् क्विप् टक् इत्येते प्रत्यया भवन्ति । क्वनभेदात् अयथासंख्यम् ।
समान इव दृश्यते सदृक्षः, सदृक्, सदृशः । सदृशी। अन्यादृक्षः, अन्यादृक्, अन्यादृशः । अन्यादृशी । त्यादृक्षः, त्यादृक्, त्यादृशः । त्यादृशी । समान-अन्य-त्यदादेः इति किम् ? वृक्ष इव दृश्यते । गौणात् इति किम् ? स इव पश्यति ॥ १॥
कर्तुः नाम्नः णिन् । २। कर्तृवाचिनः नाम्नः गौणात् परात् धातोः णिन् प्रत्ययो भवति ।
उष्टः इव क्रोशति उष्ट्रकोशी । ध्वाङ्खरावी । कर्तुः इति किम् ? शालीन् इव कोद्रवान् भोक्ता । गौणात् नाम्नः इति किम् ? उष्टः क्रोशति ॥ २ ॥
अजातेः शीले । ३।। अजातिवाचिनः नाम्नः परात् शीलार्थात् धातोः णिन् प्रत्ययो भवति ।
उष्णभोजी । शीतभोजी । प्रत्यासारिण्यः । प्रस्थायी । अजातेः इति किम् ? शालीन् भोक्ता । शीले इति किम् ? उष्णभोजः । 'प्रभोक्ता' 'संभोक्ता' इत्यत्र अनभिवानात् न भवति । तथा च बहुलाधिकारः ।। ३ ।।
व्रत-आभीक्ष्ण्ये । ४ । व्रतं शास्त्रीयो नियमः । आभीक्ष्ण्यं पौनःपुन्यम् , तात्पर्यम् , आसेवा वा । तयोः गम्यमानयोः नाम्नः परात् धातोः णिन् प्रत्ययो भवति ।
पार्श्वशायो। स्थण्डिलशायी। तदन्यवर्जनम् इह व्रतम् अवगम्यते । आभीक्ष्ण्येकषायपायिगः गान्धाराः । क्षीरपायिणः उशीनराः । 'कुल्माषखादाः' इत्यत्र बहुलाधिकारात् न भवति । अशोलार्थम् अजात्यर्थं वचनम् ॥ ४ ॥
- साधौ ।। साधुत्वविशिष्टेऽर्थे वर्तमानात् नाम्नः परात् धातोः णिन् प्रत्ययो भवति । साधुकारी । साधुदायी ॥ ५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org