________________
कृदन्ते प्रथमः पादः
[२६३ नृत-खन-रजः वुट् । ४५। नृत्-खन्-रज्भ्यः शिल्पिनि कर्तरि 'वुट् ' प्रत्ययो भवति ।
नर्तकः । नर्तकी । खनकः । खनकी । रजकः । रजकी। लुप्तैनकारनिर्देशात् एव नलुक् । शिल्पिनि इति किम् ? नर्तिका ॥ ४५ ॥
नन्द्यादिभ्यः अनः । ४६ । एभ्यः 'अन' प्रत्ययो भवति । नन्द्यादयः 'नन्दन'-'रमण' इत्यादिप्रातिपदिकपाठात् अपोद्धृत्य वेदितव्याः । स च सप्रत्ययपाठः विशिष्टविषयार्थः रूपनिग्रहार्थश्च ।
नन्दनः । वाशनः । मदनः । दूषणः । साधनः । शोभनः । रोचनः । वर्धनः । अत्र ण्यन्तेभ्यः । सहनः । तपनः । दमनः । सर्वे एव एते संज्ञायाम् । दर्पणः । रमणः । संक्रन्दनः । संकर्षणः । बिभीषणः । पवनः । लवणः निपातनात् णत्वम् । जनार्दनः । मधुसूदनः । चित्तविनाशनः । अत्र वृद्धिः । कुलदमनः । अत्र अण् न भवति ॥ ४६ ।।
ग्रहादिभ्यः णिन् । ४७। एभ्यः ‘णिन्' प्रत्ययो भवति । ग्रहादयः नन्द्यादिवत् नामपाठात् अपोद्धृत्य वेदितव्याः ।
ग्राही । उत्साही । उपस्थायी। मन्त्री। सम्मर्दी । अवरोधी । नेः वप-श्रु-सा-विशरक्षः-निवापी । निश्रावी । निसायी । निवेशी। निरक्षी।
नञः याच-व्याहृ-संव्याहृ-व्रज-वद-वसः-अयाची । अव्याहरी । असंव्याहारी । अवाजी । अवादी । अवासी ॥ ४७ ॥
नमः स्वरात् अचित्ते । ४८ । नपूर्वात् स्वरान्तात् धातोः अचित्ते कर्तरि ‘णिन् ' प्रत्ययो भवति । अकारी स्पर्शः । अचित्ते इति किम् ? अहर्ता चैत्रः । केचित् अनञः इच्छन्ति ॥४८॥
इन् च परिभुवः । ४९ । 'परि'पूर्वात् भवतेः इन् णिन् च प्रत्ययो भवति । परिभवी, परिभावी ॥ ४९॥
वेः शोषिनः देशे । ५०। 'वि'पूर्वात् शीङः पिञश्च देशे वाच्ये इन् प्रत्ययो भवति । विशयी, विषयी देशः । ‘षिञः' इति निर्देशात् एव षत्वम् । ॥ इति श्रीमलयगिरिविरचिते शब्दानुशासने वृत्तौ कृति प्रथमः पादः समाप्तः ॥ १. सूत्रे ‘रज्ज्' धातोः ‘रज्' इत्येवं लुप्तनकारत्वेन निर्देशः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org