________________
२६२ ]
आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् ।
आसु संखुइया-तनि-व्यध-अवसा - अवह अतीण्-श्वसेः । ३९ । एभ्यः परः 'ण' प्रत्ययो भवति ।
आस्रावः । संस्रावः । अवश्यायः । प्रतिश्यायः । तानः । उत्तानः । व्याधः । अवसायः । अवहारः । अत्यायः । प्रश्वासः । अवश्वासः ॥ ३९ ॥ आशिषि वुन् । ४० ।
अभीष्टस्य अर्थस्य प्रार्थनम् आशीः, तस्यां गम्यमानायां धातोः 'वुन्' प्रत्ययो भवति । जीवतात् जीवकः । नन्दकः । नकारः " इत् च अपुंसः अनित: क्य - स्यादेः अपि " [ नामप्रकरणे षष्ठपादे सूत्र ३५ ] इति पर्युदासार्थः । जीवका । नन्दका ॥ ४० ॥ नाम्नि तिक् । ४१ ।
आशिषि गम्यमानायां धातोः 'तिक्' प्रत्ययो भवति, समुदायश्चेत् नाम स्यात् । तनुतात् तन्तिः । रन्तिः । कृत्प्रत्ययश्च असरूपत्वात् एव पक्षे सिद्धः इति न तद्ग्रहणम् ॥ ४१ ॥
प्रु- सृ-ल्वः
साधौ वुच् । ४२ ।
साधुत्वविशिष्टे अर्थे वर्तमानेभ्यः प्रु-सृ-लुभ्यः परः ' बुच्' प्रत्ययो भवति ।
साधु प्रवते प्रवकः । सरकः । लवकः । साधौ इति किम् ? प्रावकः । सारकः । लावकः । चकारः 'वुण-वुचोः अक:' [(?)] इत्यत्र सामान्यग्रहणाऽविघातार्थः ॥ ४२ ॥ हः व्रीहि-काले टनण् । ४३ ।
' हा ' धातोः परः टनण् प्रत्ययो भवति, व्रीहौ काले च वाच्ये ।
जहति उदकम् इति हायना नाम व्रीहयः । जहाति भावान् इति हायनः संवत्सरः । टकारः उत्तरत्र ' ङी' प्रत्ययार्थः ? णकारः यमर्थः ॥ ४३ :
शिल्पिनि गः । ४४ ।
शिल्पं क्रियासु कौशलम् तद्वान् शिल्पी | गायतेः शिल्पिनि कर्तरि प्रत्ययो भवति ।
गायनः । गायनी ॥ ४४ ॥
१ ' श्याआत्तन्व्यधू आसुसंखु अत्रसाह अतीण्श्वसः " | ४ | ३ | १०० । इति शाकटायने । अत्र 'आत्' पदेन आकारान्ता अपि धातवो गृह्यन्ते उदाह्रियन्ते च - "धायः । ग्लायः । म्लायः” इति । मेsपि ५1१/६४ सूत्रे एत्रमेव । अत्र नैवम् । २. यकारार्थम् इति प्रतीयते ।
Jain Education International
For Private & Personal Use Only
'
www.jainelibrary.org