________________
कृदन्ते प्रथमः पादः
[ २६१ 'इ'उपान्त्य-प्री-कृ-गृ-ज्ञः कः । ३४ ।. 'इकु' उपान्त्यात् 'प्री' प्रभृतिभ्यश्च परः 'क' प्रत्ययो भवति ।
विलिखः । बुधः । 'काष्ठभेदः' इत्यत्र परत्वात् अण् । प्रियः । संप्रियः । किरः । उत्किरः । गिलः । ज्ञः ॥ ३४ ॥
उपसर्गात् आतः असंप्रसारणः । ३५ ।। उपसर्गात् परात् आकारान्तात् धातोः परः कः प्रत्ययो भवति, न च तस्मिन् संप्रसारणम् ।
प्रस्थः । सुग्लः । उपसर्गात् इति किम् ? त्राता । असंप्रसारणः इति किम् ? आह्वः । प्रहः । अन्यथा हि अत्र संप्रसारणं स्यात् । यथा 'जुहुवतुः' 'जुहुवुः' इति । अत्र "पूर्वे अपवादाः अनन्तरान् विधीन् बाधन्ते न उत्तरान्" [न्यायसंग्रहे न्याय ३६ पृ० ३७] इति णो बाध्यते न अण, तेन गोसंदायः वडवासंदायः इति भवत्येव ॥ ३५ ॥
घ्रा-धेट्-पा-मा-दृशः शः । ३६ । उपसर्गात् परेभ्यः एभ्यः परः शः प्रत्ययो भवति ।
उजिघ्रः । उद्धयः । उत्पिबः । विधमः । उत्पश्यः । केचित् अत्र 'उपसर्गात्' इति न अनुवर्तयन्ति : 'व्याघ्र'-'आघ्रा'शब्दौ औणादिकौ ॥ ३६ ॥
साहि-साति-वेदि-उदेजि-चेति-धारि-पारि-लिम्पि-विन्देः •
अनुपसर्गात् । ३७।। एभ्यः अनुपसर्गेभ्यः परः 'श' प्रत्ययो भवति ।
साहयः । सातयः । वेदयः । उदेजयः । चेतयः । धारयः । पारयः । लिम्पयः । विन्दः । अनुपसगात् इति किम् ? संसाहयिता । “मध्ये अपवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान्" [न्यायसंग्रहे न्याय ३७ ] इति अण् भवत्येव-छत्रधारः ॥ ३७॥
सहादि-दु-नी-भू-ग्रहः णो वा । ३८। सहादेः दु-नी-भू-ग्रहिभ्यश्च अनुपसर्गेभ्यः परः 'ण'प्रत्ययो भवति वा ।
सहः, साहः । रमः, रामः । दवः, दावः । नयः, नायः । भवः, भावः । ग्रहः, ग्रोहः । अनुपसर्गात् इति किम् ? प्रसहः । प्रदवः । प्रणयः । प्रभवः। बहुलाधिकाराच विषयनियमः तेन ज्योतिषि ग्रहः । गृहम् गृहाः इति गृहयतेः अच ॥ ३८ ॥
१. आ• हेमचन्द्रस्तु एतौ शब्दौ कृत्प्रत्ययेन साधयति-५।१।५७। २. “जलचरे ग्राहः' इति शाकटायनः-१.३।१९। ३ "गृहणि ग्रहणे" इति चुरादिगणस्थो धातुः । .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org