________________
२६० ] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् ।
. गोपाय्यते इति कुप्यम्-धनम् । अन्यते इति आज्यम्-घृतम् । भिनत्ति कूलम् इति भियो नदः । उज्झति उदकम् इति उध्यो नदः । सिध्यन्ति अर्थाः अस्मिन् इति सिध्यः । एवम् पुष्यः नक्षत्रविशेषः । युज्यते तत् गमने युग्यम् वाहनम् । अन्यत्र गोप्यम् । आग्यम् । भेदः । उज्झः । सेधनः । पोषणः । योग्यम् । खनेः खेयम् । अनुपसर्गात् नाम्नः हन्तेः भवतेश्च भावे ब्रह्मणः हननम् ब्रह्महत्या । देवभूयं गतः-देवत्वं गतः इत्यर्थः । अन्यत्र न भवतिउपहतिः । हतिः । श्वघात्या वृषली । अनभिधानाच्च हन्तेर्भावे ध्यण न भवति । अग्नेः चित्र:-अग्निचित्या। अर्तेः स्वामि-वैश्ययोः अर्थः-अर्यः स्वामी, अर्यो वैश्यः । अन्यत्र आर्यः साधुः। उपात् सर्तेः ऋतुमत्याम्-उपसर्या वडवा प्रजने कल्या इत्यर्थः । पणेः विक्रयेपण्यः कम्बलः । नञ्पूर्वात् वदेः गये अवयं पापम् । अन्यत्र अनुद्यम् । माङः माने ध्यण् पाय्यम् । मेयम् अन्यत् । धाय्याः काश्चित् ऋचः । धेयम् अन्यत् । 'सं'पूर्वात् नियः सान्नायं हविः । संनेयम् अन्यत् । निकाय्यः निवासः । निचेयम् अन्यत् । 'प्र' पूर्वात् नियः असम्मत-निष्कामयोः । प्रणाय्यः शिष्यः प्रणेयम अन्यत। आनाय्यः गार्हपत्यात आनेतव्ये नित्यं जाग्रत् वा दक्षिणाग्निः । आनेयम् अन्यत् । कुण्डैः पीयते सोमः अस्मिन् इति कुण्डपाय्यः । संचीयते इति संचाय्यः । राज्ञा सूयते राजा वा सूयते अस्मिन् इति राजसूयः क्रतुः । अन्यत्र कुण्डपानः इत्यादि । परिचाय्यः, उपचाय्यः समूह्यः, चित्यः, आग्नौ एते । अन्यत्र परिचेयः इत्यादि । समूह्ये विनिपातनम् , अग्नेः अन्यत्र संपूर्वस्य ऊहेः ध्यणभावार्थम् । अमा सह वसतः अस्याम् चन्द्रा ऽौ इति अमावस्या, अमावास्या। वसेः कर्तरि तव्ये वास्तव्यः ॥ ३० ॥
वुण-तृचौ । ३१ । धातोः वुण-तृचौ प्रत्ययौ भवतः । कारकः । कर्ता ॥ ३१ ॥
अच् । ३२। धातोः परः अच् प्रत्ययो भवति । करः । वदः । पचः ॥ ३२ ॥
'लिह'आदिभ्यः। ३३ । एभ्यः परः अच् प्रत्ययो भवति ।
लेहः । शेषः । भारभरः । श्वपचः । बाधकबाधनार्थः योगः । ‘लिह' आदयः प्रयोगगभ्याः ॥ ३३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org