________________
कृदन्ते प्रथमः पादः
[ २५९ गद्यम् । मद्यम् । यम्यम् । चर्यम् । अनुपसर्गात् इति किम् ? प्रगाद्यम् । प्रमाद्यम् । प्रयाम्यम् । विचार्यम् ॥ २४ ॥
नाम्नः वदः क्यप् च । २५। अनुपसर्गात् नाम्नः परात् वदतेः क्यप् यश्च प्रत्ययो भवति ।
सत्योद्यम् , सत्यवद्यम् । नाम्नः इति किम् ? वाद्यम् । अनुपसर्गात् इति किम् ? प्रवाद्यम् ॥ २५ ॥
वर्ण-व्यञ्जनात् व्यण् । २६ । ऋवर्णान्तात् व्यञ्जनान्ताच घ्यण् प्रत्ययो भवति कार्यम् । हार्यम् । पाक्यम् ॥ २६ ॥ आसु-यु-वपि-रपि-लपि-त्रपि-डिपि-दभि-चमि-आनमः । २७ । एभ्यः ध्यण् प्रत्ययो भवति ।
आसाव्यम् । याव्यम् । वाप्यम् । राप्यम् । लाप्यम् । त्राप्यम् । डेप्यम् । दाभ्यम् । चाम्यम् । आनाम्यम् । डिपतेः कुटादित्वात् ये एकारो न स्यात् इति उपादानम् ॥२७॥
पाणि-समवाभ्यां सृजः । २८ । पाणिशब्दात् समवाच्च परात् सृजतेः परो ध्यण् प्रत्ययो भवति । पाणिसा । समवसर्या रज्जुः । पाणि-समवाभ्याम् इति किम् ? संसृज्यः ॥२८॥
उवर्णात् आवश्यके । २९ । उवर्णान्तात् धातोः अवश्यंभावे गम्यमाने घ्यण् प्रत्ययो भवति, ‘य ' अपवादः ।
लाव्यम्-अवश्यं लाव्यम् । आवश्यके इति किम् ? लयम् । अवश्यस्तुत्यः इत्यत्र विहितत्वात् क्यप् एव ॥ २९ ॥
'मृषोद्य' आदयः । ३० । एते कृत्यप्रत्ययान्ता यथादर्शनं निपात्यन्ते ।
मृषा उद्यते क्यप् मृषोद्यम् । जेः हेतौ जित्यो हलिः । जेयम् अन्यत् । विपू-नीभ्याम् मुज-कल्कयो:-विपूयो मुञ्जः। विनीयः कल्कः। विपव्यम् विनेयम् अन्यत् । ग्रहः पदअस्वैरि-बाह्य-अपक्ष्येषु-अवगृह्यं पदम् । गृह्यका इमे परवशा इत्यर्थः । गृह्या स्त्री बहिर्भूता इत्यर्थः । “ गुणगृह्या वचने विपश्चितः” [किराते सर्ग २, श्लो० ५ ] तत्पक्षम् आश्रिताः इत्यर्थः । अन्यत्र ग्राह्यम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org