________________
२५८ ] आचार्यश्रीमलयगिरिविरचितं शम्दानुशासनम् ।
प्रावृत्यम् । आइत्यम् । जुष्यम् । शिष्यम् । स्तुत्यम् । 'एति' इति इण्-इकोः ग्रहणम् इत्यम् ॥ १७॥
मृज-वृष-शंस-दुह-गुह-जप-कृतः वा । १८। एभ्यः परः क्यप् प्रत्ययो भवति वा ।
मृज्यम् , मार्यम् । वृष्यम् , वर्ण्यम् । शस्यम् , शंस्यम् । दुह्यम् , दोह्यम् । गुह्यम् , गोह्यम् । जप्यम् , जाप्यम् । कृत्यम् , कार्यम् ॥ १८ ॥
समः भृतः । १९ । 'सं 'पूर्वात् भृञः परः क्यप् प्रत्ययो भवति वा । संभृत्यः, संभार्यः ॥ १९ ॥
अनाम्नि । २०। भृञः परः क्यप् प्रत्ययो भवति अनाम्नि ।
भृत्यः पोष्यः इत्यर्थः । अनाम्नि इति किम् ? भार्याः नाम क्षत्रियाः । भार्या चैत्रस्य ॥ २० ॥
पवर्ग-स्वरात् यः एत् च आतः । २१ । पवर्गान्तात् स्वरान्तात् च आतः धातोः परः ‘य ' प्रत्ययो भवति तद्योगे च आकारस्य एकारः । लभ्यम् । रम्यम् । देयम् । जेयम् ॥ २१ ॥
तकि-चति-शकि-शसि-सहि-यति-यजेः । २२ । एभ्यः 'य' प्रत्ययो भवति । तक्यम् । चत्यम् । शक्यम् । शस्यम् । सह्यम् । यत्यम् । यज्यम् ।। २२ ।।
आङः चरेः अगुरौ । २३ । 'आङ् 'पूर्वात् चरेः अगुरौ वाच्ये 'य' प्रत्ययो भवति । आचर्यो देशः । अगुरौ इति किम् ? आचार्यः श्रीहेमचन्द्रः ॥ २३ ॥
गद-मद-यमेश्च अनुपसर्गात् । २४ । 'गद' आदिभ्यः चरेश्च अनुपसर्गेभ्यः 'य' प्रत्ययो भवति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org