________________
भवति ।
कृदन्ते प्रथमः पादः
कृत् बहुलम् । १२ ।
कृत्प्रत्ययः निर्दिष्टात् अर्थात् अन्यत्रापि अर्थे बहुलं वेदितव्यः ।
पादाभ्यां ह्रियते पादहारकः । कृष्टे पच्यन्ते स्वयमेव कृष्टपच्याः शालयः । रोचते इति रुच्यो मोदको मैत्राय । गां हन्ति तस्मै आगताय दातुम् इति गोन्नः ब्राह्मणः । स्नाति अनेन इति स्नानीयं चूर्णम् । मोहयति आत्मानम् मुह्यति अनेन इति वा मोहनीयं कर्म । अवस्राव्यते तत् इति अवस्रावणम् । राजभोजनाः शालयः । संप्रदीयते तस्मै संप्रदानम् । अपादीयते तस्मात् इति अपादानम् इत्यादिनिर्दिष्टे अर्थे कृतः नियोगतः । अन्यत्र तु यथादर्शनम् अल्पशः ॥ १२ ॥
क्तेः प्राग् अपवादे वा उत्सर्गः असरूपः । १३ ।
इतः ऊर्ध्वं क्तेः प्राक् यः अपवादः तस्मिन् विषये उत्सर्गः असरूपः प्रत्ययो वा
अवश्य काव्यम् । अवश्यलवनीयम् । जेयम् । जेतव्यम् । क्तेः प्राग् इति किम् ? कृतिः । चितिः । अत्र ‘घञ्' आदिः न भवति । असरूपः इति किम् ? उत्पिबः । निपिबः । 'क' : न भवति । न अनुबन्धकृतम् असारूप्यम् अन्यथा सरूपः एव कश्चित् न स्यात् ॥ १३ ॥ वुणः प्राक् कृत्याः । १४ ।
'वुग्' प्रत्ययात् प्राक् विधास्यमानः कृत्प्रत्ययः कृत्यसंज्ञो वेदितव्यः । ' कृत्य' प्रदेशाः 6 साप्य अनाप्यात् कर्म-भावे कृत्य - क्त-खलर्थाः ' आख्याते द्वितीये पादे सूत्र १ ] इत्येवमादयः ॥ १४ ॥
Jain Education International
तव्य - अनीयौ । १५ ।
[ २५७
धातोः परौ तत्र्य - अनीयप्रत्ययौ भवतः ।
कर्तव्यम् | करणीयम् ॥ १५ ॥
'ऋत्' उपान्त्यात् अनऋचि - कृषि-वृतेः क्यप् । १६ । ऋकारोपान्त्यात् ऋचि-कृपि वृतिवर्जात् धातोः क्यप् प्रत्ययो भवति ।
नृत्यम् । वृत्यम् । अनूऋचि - कृषि - चूतेः इति किम् ? अर्च्यम् । कल्प्यम् | चर्त्यम् ॥ १६ ॥
वृञ्-- जुषि - शासि - स्तु-एतेः । १७ ।
एभ्यः परः क्यप् प्रत्ययो भवति ।
३३
For Private & Personal Use Only
www.jainelibrary.org