________________
२५६ ]
आचार्यश्री मलयगिरिविरचितं शब्दानुशासनम् ।
आश्लिष्टः कन्यां चैत्रः । पक्षे भाव - कर्मगोः - अतिशयितं चैत्रेण इत्यादि । अकर्मकाः अपि धातवः सोपसर्गाः सकर्मका भवन्ति इति 'शी' आदीनाम् उपादानम् ॥ ६ ॥ 'गति' अर्थ - नित्य अकर्मकात् । ७ ।
गत्यर्थात् नित्याकर्मकाच्च कर्तरि 'क्त' प्रत्ययो वा वेदितव्यः ।
गतः ग्रामं चैत्रः । आसितः चैत्रः । पक्षे भाव- कर्मणोः - गतो ग्रामः चैत्रेण, गतं चैत्रेण । नित्यग्रहणम् अविवक्षितकर्मकव्युदासार्थम् तेन 'कृतः चैत्रः' इत्यादि न भवति । 'भुक्ताः विप्राः ' 'पीताः गावः' इति मत्वर्थीयः अकारः ॥ ७ ॥
अद्यर्थात च आधारे । ८ ।
अद्यर्थात् गत्यर्थ-नित्याकर्मकाच्च आधारे 'क्त' प्रत्ययो वा वेदितव्यः ।
इम् एषां भुक्तम् । इदम् एषां पीतम् । इदम् एषां यातम् । इदम् एषाम् आसितम् । पक्षे भाव - कर्मणोः - इदं तैः भुक्तम् इत्यादि ॥ ८ ॥
घुर- केलिमौ कर्मकर्तरि । ९ ।
एतौ प्रत्ययौ कर्मकर्तरि वेदितव्यौ ।
घुरो वक्ष्यते । केलिमः अत एव वचनात् । भङ्गुरं काम् । छिदुरा रज्जुः । पचेलिमा माषाः । भसि-मिन्द्र-विदां घुरः कर्तरि एव, कर्मकर्तुः असंभवात् ॥ ९ ॥ 'भीम' आदयः अपादाने । १० ।
अपादाने कारके वाच्ये 'भीम' आदयः शब्दा वेदितव्याः ।
बिभेति अस्मात् इति भीमः । एवं भीष्मः । भयानकः । खलतिः ॥ १० ॥
संप्रदानाच्च अन्यत्र उणादयः । ११ ।
संप्रदानात् अपादानाच्च अन्यत्र उणादयः प्रत्यया वेदितव्याः ।
करोति इति कारुः । कषितः असौ इति कषिः । ऋचन्ति तथा इति ऋक् । भसितं तत्र इति भस्म ॥ ११ ॥
१. 'शी' इत्यादिका ये घातवः अकर्मकाः तेभ्यः सप्तमसूत्रेणैव कर्तरि क्तः सिध्यति तथापि अकर्मका अपि सोपसर्गाः सकर्मका भवन्ति अतः न तेभ्यः सप्तमसूत्रेण कर्तरि क्तः सिध्यति अतः अत्र 'शो' आदीनाम् अकर्मकाणामपि उपादानम् इति आशयः । २. अस्मिन' इत्यर्थसूचकम् 'इदम् पदम्। ३. अस्य कृत्प्रकरणस्य चतुर्थपादे पञ्चत्रिंशत्तमं तथा षट्त्रिंशत्तमं सूत्रं दृश्यम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org