________________
२८८ ] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् । शद्रुः । सद्रुः । दारुः । सेरुः । धारुः ।। २७ ॥
सन्-भिक्ष-आशंसेः उः । २८ । 'सन्'अन्तात् भिक्ष-आशंसिभ्यां च शीलादौ सति अर्थे 'उ' प्रत्ययो भवति । लिप्सुः । चिकीर्षुः । भिक्षुः । आशंसुः ॥ २८ ॥
विन्दु-इच्छू । २९ । एतौ 'उ' प्रत्ययान्तौ निपात्येते । वेत्तेः 'उ' प्रत्ययः नम्-विन्दुः । इच्छतेः इच्छुः ।। २९ ।। तन्द्रा-निद्रा-शीङ्-श्रद्धा-स्पृहि-गृहि-पति-दयात् आलुः । ३० ।
'तन्दा' इति 'तत्'शब्दपूर्वः द्रातिः'। निर्देशात् एव च दकारस्य नकारः । स्पृहि-गृहि-पतयः चुरादयः । एभ्यः शीलादौ सति अर्थे 'आलु' प्रत्ययो भवति ।
तन्द्रालुः । निद्रालुः । शयालुः । श्रद्धालुः । स्पृहयालुः । गृहयालुः । पतयालुः । दयालुः ।। ३०॥
कुटि-लुष्टि-वृञ् जल्पि-भिक्षात् आकट् । ३१ । एभ्यः शीलादौ सति अर्थे 'आकट्' प्रत्ययो भवति ।
कुट्टाकः । लुण्टाकः । वराकः । जल्पाकः। भिक्षाकः । कुट्टाकी । लुण्टाकी। वराकी । जल्पाकी । भिक्षाकी ॥ ३१ ।।
मरक् सृ-अद-घसः । ३२ । 'सृ' आदिभ्यः शीलादौ सति अर्थे 'मरक्' प्रत्ययो भवति । सृमरः । अमरः । घस्मरः ॥ ३२ ॥
__ इः सहि-वहि-चलि-पापतः यङः । ३३ । एभ्यः यङन्तेभ्यः परः शीलादौ सति अर्थे 'इ' प्रत्ययो भवति ।
सासहिः । वावहिः । चाचलिः । पापतिः । अत एव निर्देशात् पतेः 'नीः' न भवति ॥ ३३ ॥
दधि-सत्रि-चक्रि-जज्ञि-नेमिः । ३४ । १. “ 'निद्रा-तन्द्रा' इति नि-तत्पूर्वात् द्रायतेः " ४।३।२३१ शा० । हेमचन्द्रस्तु द्रातः द्रायतेर्वा मन्यते अथवा तन्द्र इति सौनं धातुं स्वीकरोति-५।२।३७। २ 'तद्' इत्यस्य दकारस्य ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org