________________
आख्याते दशमः पादः
[ २५३ करोति । तनोति । सनोति । कृञः अतनादित्वात् ग्रहणम् । तनादित्वे अन्यद अपि तनादिकार्य स्यात्-कृतः । कृतवान् ॥ ४० ॥
तुदादेः शः । ४१ । तुदादेः कर्तृविहिते शिति प्रत्यये परे शो भवति । तुदति । नुदति ॥ ४२ ॥
__सृजः श्राद्ध कर्मवत् आत्मने । ४२। सृजः श्राद्भवति कर्तरि कर्मवत् कार्यं भवति तच्च आत्मनेपदविषये । असर्जि, सृज्यते मालां धार्मिकः । श्राद्धे इति किम् ? सृजति मालां मालिकः ॥४२॥
तपेः तपःकर्मकात् । ४३ । तपःकर्मकात् तपेः कर्तरि कर्मवत् कार्यं भवति आत्मनेपदविषये ।
तप्यते तपांसि मुनिः । तपिः इह ‘करोति ' अर्थः । तपःकर्मकात् इति किम् ? उत्तपति सुवर्ण सुवर्णकारः ॥ ४३ ॥ .
कर्मणि अस्त्र'आदिभ्यः । ४४। 'सु' प्रभृतिवर्जात् धातोः कर्मणि कर्तरि कर्मवत् कार्यं भवति आत्मनेपदविषये ।
करोति कटं चैत्रः । क्रियते अकारि, कारिषीष्ट कटः स्वयमेव । कर्मणि कर्तरि इति किम् ? ग्रामं गच्छति । साधु असिः छिनत्ति । प्रत्यासत्या च धातुक्रियाकालभेदे स्यात् । इह न भवति-पचति ओदनं चैत्रः राध्यति ओदनः स्वयमेव । भिद्यमानः कुशूल: पात्राणि भिनत्ति । अन्योन्यम् आश्लिष्यत । हन्ति आत्मानम् आत्मना । ‘स्रवति ' आदिप्रतिषेधः किम् ? स्रवति उदकं स्वयमेव । गलति उदकं स्वयमेव 'स्रवति' आदयः प्रयोगगभ्याः ॥४४॥
करणे क्वचित् । ४५। धातोः करणे कर्तरि क्वचित् कर्मवत् कार्य भवति आत्मनेपदविषये ।
परिवारयन्ते कण्टकाः वृक्षं स्वयमेव । क्वचित् इति किम् ? साधु असिः छिनत्ति ॥ ४५॥
१ नेतद् उदाहरणद्वयम् अत्र संगच्छते परंतु अत्र एवं वाच्यम् यत् कृञः तनादिपाठे सति 'अकृत' 'अकृथाः' इति रूपं विकल्पेन स्यात् तच्च नेष्टम् । २. एकस्य धातोः क्रियायाः कालभेदेऽपि इदं सूत्रे प्रवर्तते परंतु यत्र धातोरेव भेदः तत्र तु नेदं प्रवर्तते इति एतत्प्रदर्शनाय 'पचति' 'राध्यति' इति धातुभेदयुक्तम् उदाहरणं प्रदर्शयति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org