________________
२५४ ] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् ।
न वा स्वर-दुहः त्रिः । ४६। स्वरान्तात् दुहेश्च कर्मणि कतरि ञिः वा न भवति ।
अकृत अकारि वा कटः स्वयमेव । अदुग्ध अदोहि गौः स्वयमेव । कर्तरि इति किम् ? अकारि कटः चैत्रेण । अदोहि 'गौः बल्लवेन ॥ ४६ ॥
रुधः । ४७। रुधः कर्तरि ञिः न भवति । अरुद्ध गौः स्वयमेव ।। ४७ ॥
तपः अनुतापे च । ४८ । तपतेः कर्तरि अनुतापविषये च ञिः न भवति ।
अन्वतप्त कितवः स्वयमेव । अतप्त तपांसि मुनिः । अन्वतप्त पापेन कर्मणा । अनुतापे च इति किम् ? अतापि पृथ्वी राज्ञा ॥ ४८ ॥
स्नु-श्रि-णि-आत्मनेपदाकर्मकात् । ४९ । स्नु-श्रिभ्याम् ण्यन्तात् आत्मनेपदविधौ अकर्मकाच्च कर्तरि जिन भवति ।
प्रास्नोष्ट गौः स्वयमेव । उदशिश्रियत दण्डः स्वयमेव । अपीपचत ओदनः स्वयमेव । व्यकृत सैन्धवः स्वयमेव ॥ ४९ ॥
. भूषार्थ-सन्-'दुह'आदीनां च त्रि-क्याः । ५० ॥..
भूषार्थेभ्यः सन्नन्तेभ्यः ‘दुह' आदिभ्यः स्नु-श्रि-णि-आत्मनेपदाकर्मकेभ्यश्च कर्तरि निच-जिट-क्या न भवन्ति ।
____ अबूभुषत कन्या स्वयमेव । भूषयिष्यते कन्या स्वयमेव । भूषयते कन्या स्वयमेव । अचिकीर्षिष्ट कटः स्वयमेव । चिकीर्षते वा कटः स्वयमेव । दुग्धे गौः स्वयमेव । अनस्त दण्डः स्वयमेव । परिणममानं पलालं न भवति । अग्रन्थिष्ट । अवोचत । अकीष्टं । अगीष्ट स्वयमेव । स्नु-श्रि-णि-आत्मनेपदाऽकर्मकाणां ञिः उदाहृतः । क्य उदाहियते-प्रस्नुते गौः स्वयमेव । उच्छ्रयते दण्डः स्वयमेव । कारयते कटः स्वयमेव । विकुर्वते सैन्धवाः स्वयमेव ॥ ५० ॥
॥ इति श्रीमलयगिरिविरचिते शब्दानुशासने वृत्तौ आख्याते दशमः पादः समाप्तः ॥
१. गौः वत्सेन पा० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org