SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ २५२ ] भवति । आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् । अक्ष्णोति, अक्षति ॥ ३३॥ Jain Education International तक्षः स्वार्थे । ३४ । स्वार्थः तनूकरणम्, तत्र वर्तमानात् तक्षः कर्तृविहिते शिति प्रत्यये परे इनुः व तक्ष्णोति, तक्षति | स्वार्थे इति किम् ? संतक्षति शिष्यम् || ३४ ॥ स्वादेः । ३५ । ' सु ' आदेः परः कर्तृविहिते शिति प्रत्यये परे नुः भवति । सुनोति । सिनोति ॥ ३५ ॥ स्तम्भू-स्तूम्भू-स्कम्भू-स्कुम्भू-स्कोः इना च । ३६ । एभ्यः कर्तृविहिते शिति प्रत्यये परे ना इनुश्च प्रत्ययो भवति । स्तम्नाति, स्तभ्नोति । स्तुभ्नाति, स्तुभ्नोति । स्कम्नाति, स्कभ्नोति । स्कुनाति स्कुनोति । स्कुनाति, स्कुनोति । 'स्कु 'वर्जाः सौत्रधातवः । ऊकारः स्तब्ध्वा स्तम्भित्वा इति एतद्विकल्पार्थः ॥ ३६ ॥ क्रयादेः । ३७ । क्र्यादेः कर्तृविहिते शिति प्रत्यये परे ना भवति । क्रीणाति ॥ ३७ ॥ इनाहेः आनः व्यञ्जनात् । ३८ । व्यञ्जनात् परस्य इनायुक्त हे: 'आन' आदेशो भवति । पुषाण । स्तभान । व्यञ्जनात् इति किम् ? क्रीणाहि ॥ ३८ ॥ रुधादेः श्नम् नलुक् च । ३९ । धादेः कर्तृविहिते शिति प्रत्यये परे इनम् भवति तद्योगे च नैकारस्य लुक् । रुणद्धि | हिनस्ति ॥ ३९ ॥ कृञ्-तनादेः उः । ४० । कृञः तनादेश्व परः कर्तृविहिते शिति प्रत्यये परे उः भवति । १. रुधादेः धातुसंबन्धिनः स्वरात् परः श्नम् भवति इति अध्याहार्य ज्ञेयम् । २. यत्र मूलप्रकृतौ धातुस्थः नकारः स्यात् तत्र लुग् विधेयः यथासंभवम् । यथा 'हिंस्' धातुः तत्र नकारस्य लोपः । अञ्ज् धातुः तत्र नकारस्य लोपे अनक्ति । एवम भनक्ति इत्यादि साध्यम् For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy