SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ आख्याते दशमः पादः स्वर-ग्रह-दृशि-हनिभ्यः स्य-सिच्-आशी:-श्वस्तन्या वा निट । २७ । . स्वरान्तात् ग्रहादिभ्यश्च परेषां भाव-कर्मविषयाणां स्य-सिच्-आशी:-श्वस्तनीनां जिट वा भवति । दायिष्यते । अदायिषाताम् । दायिषीष्ट । दायिता । ग्राहिष्यते । अग्राहिषाताम् । ग्राहिषीष्ट । ग्राहिता । दर्शिष्यते । अदर्शिषाताम् । दर्शिषीष्ट । दर्शिता । घानिष्यते । अघानिषाताम् । घानिषीष्ट । घानिता । पक्षे–दास्यते । ग्रहीष्यते । द्रक्ष्यते । हनिष्यते । इत्यादि । वचनभेदात् न यथासंख्यम् ॥ २७ ॥ क्यः शिति । २८ । धातोः परो भाव-कर्मविहिते शिति प्रत्यये परे क्यो भवति । . आस्यते । क्रियते कटः । शिति इति किम् ? बभूव ॥ २८ ॥ कर्तरि अनदादेः शप् । २९ । अदादिवर्जात् धातोः परः कर्तरि विहिते शिति प्रत्यये परे शप् भवति । भवति । कर्तरि इति किम् ? भूयते । अनदादेः इति किम् ? अत्ति ॥ २९ ॥ दिवादेः श्यः । ३० । दिवादेः परः कर्तृविहिते शिति प्रत्यये परे श्यो भवति । दीव्यति । सीव्यति ॥ ३० ॥ लषादेः वा । ३१ । एभ्यः परः कर्तृविहिते शिति प्रत्यये परे श्यो वा भवति । लष्यति, लषति । यस्यति, यसति । लषि यसि संयसि भ्रम भ्रास भ्लास क्रम क्लम त्रुटि त्रसि इति लपादिः ॥ ३१ ॥ कुषि-रञ्जेः व्याप्ये परस्मै च वा । ३२ । कुषि-रञ्जिभ्यां व्याप्ये कर्तरि विहिते शिति प्रत्यये परे श्यो भवति तद्योगे परस्मैपदं च वा। - कुष्यति कुष्यते वा पादः स्वयमेव । रज्यति रज्यते वा वस्त्रं स्वयमेव । व्याप्ये कर्तरि इति किम् ? कुष्णाति पादं रोगः ।। ३२ ॥ __ अक्षः वा श्नुः । ३३ । . अक्षतेः परः कर्तृविहिते शिति प्रत्यये इनुः वा भवति । पवा। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy