SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ २५०] __ आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् । ___अद्युतत् । अश्वितत् । अपुषत् । अशुषत् । असरत् । अशिषत् । परस्मै इति किम् ? व्यद्योतिष्ट । भूवाद्यन्तर्गणः द्युतादिः । दिवाद्यन्तर्गणः पुष्यादिः ॥ २० ॥ वक्ति-असू-ख्यातेः । २१ । परस्मै इति निवृत्तम् पृथग्वचनात् । एभ्यः कर्तरि अद्यतन्याम् अङ् भवति । अवोचत् , अवोचत । पर्यपास्थत । आख्यत् । पुष्यादित्वात् सिद्धे ‘असू'ग्रहणम् आत्मनेपदार्थम् । 'तिप्' निर्देशात् यङः श्लुचि न भवति-अवावचीत् । अचाख्यासीत् ॥ २१ ॥ हा-अति-लिपि-सिचः । २२ । एभ्यः कर्तरि अद्यतन्याम् अङ् भवति । . आह्वत् । आरत् । अलिपत् । असिचत् ।। २२ ।। . वा आत्मने । २३ । ' ह्वा' आदिभ्यः कर्तरि अद्यतन्याः आत्मनेपदे वा अङ् भवति । आह्वत, आह्वास्त । समारत, समार्ट । अलिपत, अलिश । असिचत, असिक्त ॥२३॥ दीप-जन-बुध-पूरि-तायि-प्यायः ते जिच् तलुक् च । २४ । एभ्यः कर्तरि अद्यतन्याः आत्मनेपदे तकारे परे जिच् वा भवति तद्योगे च निमित्ततकारस्य लुक् । अदीपि, अदीपिष्ट । अजनि, अजनिष्ट । अबोधि, अबोधिष्ट । अपूरि, अपूरिष्ट । अतायि, अतायिष्ट । अप्यायि, अप्यायिष्ट । ते इति किम् ? अदीपिषाताम् ॥ २४ ॥ __पदेः। २५ । पद्यतेः कर्तरि अद्यतन्याः आत्मनेपदे ते परे जिच नित्यं भवति, तकारस्य लुक् । उदपादि ॥ २५ ॥ कर्म-भावे । २६ । धातोः परे भावे कर्मणि च अद्यतन्या आत्मनेपदे तकारे परे जिच् भवति 'त' शब्दस्य च लुक् । - अभावि । अकारि कटः ॥ २६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy