________________
आख्याते दशमः पादः
[२४९ न असत्त्वाश्लेषे । १५ । अप्राण्याश्लेषे अद्यतन्यां सक् न भवति ।
उपाश्लिषत् जतु च काष्ठं च । असत्त्वाश्लेषे इति किम् ? व्यत्यश्लिक्षन्त मिथुनानि ॥ १५ ॥
श्रि-द्रु-सु-कमि-णेः ङः कर्तरि । १६ । एभ्यः कर्तरि अद्यतन्यां 'ङ'प्रत्ययो भवति ।
अशिश्रियत् । अदुद्रुवत् । असुनुवत् । अचकमत । गि-अचीकरत् । कतेरि इति किम् ? अकारिषातां कटौ मैत्रेण ॥ १६ ॥
श्वि-धेटः वा । १७ । आभ्यां कर्तरि अद्यतन्यां ङो वा भवति ।
अशिश्वियत् , अश्वयीत् । अदधत् , अधासीत् । कर्तरि इति किम् ? अधिषातां स्तनौ वत्सेन ॥ १७॥
जु-स्तम्भ'आदि-श्वि-ऋदितः अङ् परस्मै । १८ । एभ्यः अद्यतन्याः परस्मैपदे परे अङ् भवति वा ।
अजरत् , अजारीत् । अस्तभत् , अस्तम्भीत् । अस्कभत् , अस्कभीत् । अश्वत् । अश्वयीत् । अरुधत् , अरौत्सीत् । स्तम्भू । स्कैम्भू । मुचू म्लुचू ग्रुचू ग्लुचू इति स्तम्भादिः ॥ १८ ॥
लदितः । १९ । लदितः परः अद्यतन्याः परस्मैपदे परे अङ् भवति । अगमत् । परस्मै इति किम् ? समगस्त । पृथग्योगः नित्यार्थः ॥ १९ ॥ .
गुतादि-पुष्यादि-सर्ति-शास्तेः । २०।। एभ्यः परः अद्यतन्याः परस्मैपदे परे अङ् भवति ।
१. अस्मिन्नेव सूत्रे इदम् उदाहरणम् , ' स्कम्भू' इत्येवंर्पो धातुश्च यद्यपि न वर्तते पाणिनीये, शाकटायनीये हैमे च धातुपाठे । परन्तु अयं घातु: सौत्रो ज्ञेयः। सौत्रः-सूत्रोक्तःसूत्रे सूचितः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org