SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ आचार्य श्रीमलयगिरिविरचितं शब्दानुशासनम् । संचस्करतुः । आनर्छुः । ऋन्- निचकरतुः । 'स्कृ' इति सस्सट उपादानात् इह न भवति - चक्रतुः । अक्वसु-कानयोः इति किम् ? तितीर्वान् । ततिराणः । उत्तरेण एव सिद्धे 'स्कृ’ग्रहणम् अन्यत्र संयोगात् परस्य ग्रहणे स्कृञः अपरिग्रहार्थम् ॥ ८ ॥ २४८ ] संयोगात् ऋत् - अर्तेः । ९ । संयोगात् परो यः ऋत् तदन्तस्य अर्तेश्व परोक्षायाम् अर् भवति न तु क्वसु-कानयोः । सस्मरतुः । आरतुः ॥ ९ ॥ Jain Education International क्य-य - आशीर्ये । १० । संयोगात् परः यः ऋत् तदन्तस्य अर्तेश्च क्ये यङि आशीर्ये च परे अर् भवति । स्मर्यते । अर्यते । सास्मर्यते । अरार्यते । स्मर्यात् । अर्थात् । 'अर्तेः' इति 'तिपू' नर्देशात् ङः लुचि न भवति - आरियात् ॥ १० ।। सिच् अद्यतन्याम् ११ । धातोः परः अद्यतन्यां सिच् भवति । अकार्षीत् ॥ ११ ॥ 'तृप्' आदेः असृपः वा १२ । 'तृप्' आदेः परः अद्यतन्यां सिच् वा भवति न तु सृपः । अतृपत्, अत्रासीत् । तृप दृप कृष स्पृश इति तृपादिः ॥ १२ ॥ इकः शिटः अदृशः सक् नेट् चेत् । १३ । इकः परो यः शिट् तदन्तात् धातोः दृशिवर्जात् अद्यतन्यां परतः सक् प्रत्ययो भवति न चेत् तस्य सः इट् स्यात् । अलिक्षत् । अधुक्षत् । इकः इति किम् ? अधाक्षीत् । शिटः इति किम् ? अभैत्सीत् । अदृश इति किम् ? अद्राक्षीत् । नेट् चेत् इति किम् ? अकोषीत् । न्यग्रहीत् ॥ १३ ॥ श्लिषः । १४ । श्लिषः अद्यतन्यां सक् भवति नेट् चेत् । आश्लिक्षत् युवतिं युवा । नेट् चेत् इति किम् ? आश्लेषीत् ॥ १४ ॥ 1 For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy