SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ आख्याते दशमः पादः श्वयतेः अङि अत् । १। श्वयते: अङि परे अत् अन्तादेशो भवति । अश्वत् । तिनिर्देशात् ङः लुचि न भवति-अशेश्वियत् ॥ १ ॥ वचेः उम् । २। वचे: अङि परे अन्त्यात् स्वरात् परः उम् भवति । अवोचत् ॥ २ ॥ - असेः थक् । ३ । अस्यतेः अङि परे थक् आगमो भवति । आस्थत् ॥ ३ ॥ पतेः पप्त । ४। पतेः अङि पप्त आदेशो भवति । अपप्तत् ।। ४ ॥ नशे वा इम् । ५। नशेः अङि परे अन्त्यात् स्वरात् परो वा इम् भवति । अनेशत् , अनशत् ॥ ५ ॥ _ ऋवर्णस्य अर् । ६। ऋवर्णान्तस्य अङि परे अर् भवति । मा भवान् अरत् । अरताम् । अरन् । असरन् । अजरत् । जरा ॥ ६ ॥ जागुः किति । ७। 'जागृ' इत्येतस्य इकः किति प्रत्यये अर् भवति । जागर्यते । जागरितः ॥ ७ ॥ स्कृ-ऋच्छ्-ऋतः परोक्षायाम् अक्वसु-कानयोः । ८ । स्कृ-ऋच्छोः ऋदन्तानां च ऋवर्णस्य परोक्षायाम् अर् भवति न तु क्वसु-कानयोः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy