SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ २४६ ] आचार्य श्रीमलयगिरिविरचितं शब्दानुशासनम् । विश्रमः, विश्रामः । केचित् कृति गिति जौ च अस्य विकल्पम् आहुः ।। ६३ ॥ न उद्यम-उपरमः । ६४। अनयोः उपान्त्यस्य अतः घनि परे आकारो न भवति ।। उद्यमः। उपरमः । उत्-उपग्रहणं किम् ? यामः । उपयामः । रामः । विरामः ॥६४॥ मः अकमि-यमि-रमि-नमि-गमि-वम्-आचमः कृत्र-ौ । ६५ ।। 'कमि'आदिवर्जस्य मन्तस्य धातोः उपान्त्यस्य अतः कृति गिति औ च परे आकारो न भवति । शमः । शमकः । अशमि । 'कमि आदिप्रतिषेधः किम् ? कामः । यामः । रामः । नामः। आगामुकः । वामः । आचामः । 'आचम्' इति किम् ? चमकः। विचमकः ॥६५॥ जन-वधः । ६६। अनयोः उपान्त्यस्य अतः कृति गिति औ च परे आकारो न भवति । जनकः । वधकः । अजनि । अवधि ॥ ६६ ॥ आतः यम् । ६७ । आकारान्तस्य धातोः कृति गिति औ परे यम् भवति । दायः। दायकः । अदायि ॥ ६७ ॥ भुवः परोक्षा-अद्यतन्योः स्वरे वक् । ६८ । भुवो धातोः परोक्षा-अद्यतन्योः स्वरे परे वक् आगमो भवति । बभूव । अभूवन् । स्वरे इति किम् ? बभूवान् । अभूत् ॥ ६८ ॥ हनः हः घः णिति । ६९।। हन्तेः हकारस्य निति णिति च प्रत्यये परे धकारो भवति । अघाति । घातयति । गिति इति किम् ? हन्ता ॥ ६९ ।। नः तश्च अधि-णपि । ७० । हन्तेः नकारस्य जिति णिति च प्रत्यये नि-णपूवर्जिते परे तकारो भवति हकारस्य च घः । __ घातः । घातकः । अजि-णपि इति किम् ? अघानि । जधान ॥ ७० ॥ ॥ इति श्रीमलयगिरिविरचिते शब्दानुशासने वृत्तौ आख्याते नवमः पादः समाप्तः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy