________________
आख्याते नवमः पादः
[२४५ णो मृगरमणे । ५६। मृगरमणे वर्तमानस्य र ः उपान्त्यनकारस्य णौ परे लुग् भवति । रजयति मृगान् व्याधः । मृगरमण इति किम् ? रञ्जयति रजको वस्त्रम् ।। १६ ।।
घञि भाव-करणे । ५७ । भाव-करणार्थविहिते घनि परे रञ्जेः उपान्त्यनकारस्य लुग् भवति । रञ्जनम् , रज्यते अनेन इति वा रागः । भाव-करणे इति किम् ? आधारे रङ्गः॥५७॥
'प्रश्रथ आदिः । ५८। 'प्रश्रथ आदिः कृतनलुक् निपात्यते ।
प्र-हिमपूर्वस्य श्रन्थेः घञ्-प्रश्रथः । हिमश्रथः । इन्धेः एधः । अवपूर्वस्य उन्देः अवोदः । मन्-उन । दशेः अनटि दशनम् । स्यन्देः घञि स्यदो जवः। निपातनात् अन्यत्र न भवति-तैलस्यन्दः ।। ५८ ॥
ऋतः मृजेः आर् वा स्वरे । ५९। मृजेः उपान्त्यस्य ऋकारस्य स्वरादौ प्रत्यये परे आर् वा भवति ।
परिमृजन्ति, परिमार्जन्ति । ऋतः इति किम् ? मार्जनम् । स्वरे इति किम् ? मृष्टः ॥ ५९॥
अतः आः । ६० । मृजेः उपान्त्यस्य अकारस्य आकारी भवति । मार्टि । अतः इति किम् ? मृष्टः ।। ६० ॥
णिति । ६१। धातोः उपान्त्यस्य अतः जिति णिति च प्रत्यये परे आकारो भवति । अपाचि । पाचयति । उपान्त्यस्य इति किम् ? पिपतिषकः ।। ६१ ॥
णपि अस्मदि वा वृद्धिश्च इकः । ६२ । धातोः उपान्त्यस्य अतः अस्मद्विषये णपि परे आकारो वा भवति वृद्भिश्च 'इक्'अन्तस्य वा । अहं पपच, अहं पपाच । अहं निनय, अहं निनाय ॥ ६२ ॥
विश्रमो घनि । ६३ ।। विपूर्वस्य श्रमेः उपान्त्यस्य अतः धनि परे वा आकारो भवति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org