SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ २४४ ] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् । शासेः उपान्त्यस्य क्वौ परे इकारो भवति । मित्रशीः ॥ ४८ ॥ आङः । ४९ । आङः परस्य शासेः उपान्त्यस्य इकारो भवति क्वौ एव परे । आशीः । क्वौ इति किम् ? आशास्ते ।। ४९ ॥ नः व्यञ्जनस्य अनुदितः । ५० । व्यञ्जनान्तस्य अनुदितः धातोः उपान्त्यस्य नकारस्य किति ङिति प्रत्यये परे लुग् भवति । श्रस्तः । सनीस्रस्यते । व्यञ्जनान्तस्य इति किम् ? नीयते। अनुदितः इति किम् ? निन्द्यते ॥ ५० ॥ अञ्चः अन याम् । ५१ । अनार्थस्य अञ्चतेः उपान्त्यस्य नकारस्य किति प्रत्यये लुग भवति । उदक्तम् उदकं कूपात् । अनायाम् इति किम् ? अञ्चिता गुरवः ॥ ५१ ।। लङ्गि-कम्प्योः उपताप-अङ्गविकृत्योः । ५२ । लङ्गि-कम्योः उपान्त्यस्य नकारस्य यथासङ्ख्यं उपतापे अङ्गविकारे च अर्थे किति प्रत्यये परे लुग् भवति । विलगितः । विकपितः । उपताप-अङ्गविकृत्योः इति किम् ? विलङ्गितः । विकम्पितः । उदित्वात् अनयोः अप्राप्तौ वचनम् ॥ ५२ ।। भजेः औ वा । ५३ । भञ्जेः उपान्त्यस्य नकारस्य नौ परे लुग् वा भवति । अभञ्जि, अभाांज ।। ५३ ॥ दंश-सञ्जः शपि । ५४ । अनयोः उपान्त्यस्य नकारस्य शपि परे लुग् भवति । दशति । सजति ।। ५४ ।। रञ्जः । ५५ । रञ्जेः उपान्त्यस्य नकारस्य शपि परे लुग् भवति । रजति ।। ५५ ॥ १ अत्र सूत्रे षटचत्वारिंशत्तमसूत्रात् 'लुक्' इति अनुवर्तनीयम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy