________________
आख्याते नवमः पादः
[२४३ जिघ्रतेः हः । ४१। जिघ्रते: उपान्त्यस्य डे परे णौ इः वा भवति । अजिप्रिपत् , अजिघ्रपत् । 'तिप्'निर्देशात् यङः श्लुचि न भवति । अजाघ्रपत्
तिष्ठतेः इः । ४२। तिष्ठतेः उपान्त्यस्य ङपरे णौ इः भवति । अतिष्ठिपत् ॥ ४२ ॥
णौ दुषेः उत् । ४३ । दुषेः उपान्त्यस्य णौ परे ऊकारो भवति ।
दूषयति । णौ अनुवर्तमाने पुनः णिग्रहणं निवृत्त्यर्थम् । ( हस्वबाधनार्थम् इति एके-अदुदूषत् ॥ ४३ ॥
चित्ते वा । ४४। चित्ते वाच्ये दुषेः उपान्त्यस्य णौ परे ऊकारो वा भवति । मनो दूषयति दोषयति वा मैत्रः ॥ ४४ ।।
गोहः स्वरे । ४५ । कृतगुणस्य गुहेः उपान्त्यस्य स्वरादौ प्रत्यये परे ऊकारो भवति । निगृहति । गोह इति किम् ? निजुगुहुः ॥ ४५ ॥
गम-हन-जन-खन-घसः अनङि लुक किति । ४६ । एषाम् उपान्त्यस्य अवर्जिते स्वरादौ किति ङिति च प्रत्यये परे लुग भवति ।
जग्मतुः । जन्नतुः । जज्ञे। चख्नतुः । नन्ति । अनङि इति किम् ? अगमत् । स्वरादौ इति किम् ? गम्यते ॥ ४६ ॥
शासे इक् व्यञ्जने । ४७। शासेः उपान्त्यस्य स्वरस्य अङि व्यञ्जनादौ च किति ङिति परे इकारो भवति ।
अशिषत् । शिष्टः । अङ्-व्यञ्जने इति किम् ? शासति । किति इति किम् ? शास्ति ॥ ४७ ॥
क्वौ । ४८ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org