________________
२४२ ] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् । वा अनुपसर्गात् ज्वल-हल-ह्मल-ग्ला-स्ना-वनू-वम-नमः । ३४ ।
एषाम् उपान्त्यस्य णौ हस्वो वा भवति चेत् उपसर्गात् परे न स्युः ।
ज्वलयति, ज्वालयति । ह्वलयति, ह्रालयति । मलयति, झालयति । ग्लपयति, ग्लापयति । स्नपयति, स्नापयति । वनयति, वानयति । वमयति, वामयति । नमयति, नामयति । अनुपसर्गात् इति किम् ? प्रज्वलयति । ग्ला-स्नोः अप्राप्ते शेषाणां नित्यं प्राप्ते वचनम् ॥३४॥
छदेः इस्-मन्त्र-क्वौ । ३५ । छदेः उपान्त्यस्य 'इस्'आदिपरे णौ परे हस्वो भवति । छदिः । छन । छत्रम् । दामच्छत् ॥ ३५ ॥
अद्वयादिउपसर्गस्य थे । ३६ । छदेः उपान्त्यस्य घपरे णौ हस्वो भवति न चेत् तस्य पूर्व द्वयादय उपसर्गाः स्युः । छदः । प्रच्छदः । अद्वयादिउपसर्गस्य इति किम् ? समुपाच्छादः ।। ३६ ॥
डे० समानस्य अलुचि । ३७ । धातोः उपान्त्यस्य स्वरस्य डे परे णौ हस्वो भवति न तु समानस्य लुचि ।
अपीपचत् । लुचि असमानस्य इति किम् ? अरराजत् । उपान्त्यस्य इति किम् ? अचकाङ्क्षत् ।। ३७ ॥
न शास-ऋदितः । ३८ । शासेः ऋदितश्च उपान्त्यस्य ङपरे णौ हस्वो न भवति । अशशासत् , मा भवान् ओणिणत् ।। ३८ ॥
_ 'भाष'आदीनां वा । ३९ । एषाम् उपान्त्यस्य ङपरे णौ हस्वो भवति वा । अबीभषत् , अबभाषत् । अबीभसत्, अबभासत् । भाष भास भ्राज दीप पीड जीव मील कण रण वण भण ह्वे हेठ लुट लप इति 'भाष'आदिः । बहुवचनं यङः लुचि अपि भावार्थम् ॥ ३९ ॥
ऋत् ऋवर्णस्य । ४०। धतोः उपान्त्यस्य ऋवर्णस्य ङपरे णौ ऋः वा भवति ।
अवीवृतत् , अववर्तत् । अचीकृतत्, अचिकीर्तत् । उपान्त्यस्य इति किम् ? अचीकरत् ।। ४० ॥
१ पू० तथा पा० आदर्शे ईदृश एव पाठः परन्तु मूलसूत्रपाठानुसारेण अत्र समानस्य अलुचि इति उचितम् । एतत्पाठानुसारेण तु "ऽसमानस्य लुचि" इत्येवं सूत्रं भवेत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org