________________
आख्याते नवमः पादः
[२४१ कगे-वनू-जन-जृष्-कनसू-रञ्जः । २८।। एषाम् उपान्त्यस्य णौ परे हस्वो भवति अम्-जिपरे तु वा दीर्घः । कगयति । वनयति । जनयति । जरयति । क्नसयति । रजयति ॥ २८ ॥
परि-अपाभ्यां स्खदः । २० । परि-अपाभ्यां परस्य स्खदेः उपान्त्यस्य णौ परे हस्वो भवति अम्-जिपरे तु वा दीर्घः । परिस्खदयति । अपस्खदयति । परि-अपाभ्याम् इति किम् ? प्रस्खादयति ॥२९ ।।
शमेः अदर्शने । ३० । अदर्शनार्थस्य शमेः उपान्त्यस्य णौ परे हस्वो भवति अम्-जिपरे तु वा दीर्घः ।
शमयति । अदर्शने इति किम् ? निशामयति रूपम् । केचित् दर्शने एव इच्छन्ति ॥ ३० ॥
__ यमः अपरिवेषे णिचि च । ३१ । अपरिवेषार्थस्य यमेः उपान्त्यस्य णिचि अणिचि च परे हस्वो भवति अम्-जिपरे तु वा दीर्घः ।
यमयति। अपरिवेषे इति किम् ? यामयति अतिथिम् । यामयति अयने चन्द्रमसम् । केचित् परिवेषे एव इच्छन्ति । 'णिचि च' इति वचनात् अन्येषां न भवति-स्यमि वितर्के स्यामयते ॥ ३१ ॥
मारण-तोषण-निशाने ज्ञश्च । ३२ । एषु अर्थेषु ज्ञः उपान्त्यस्य णिचि अगिचि च परे हस्वो भवति अम्-जिपरे तु वा दीर्घः।
विज्ञपयति पशुम् । विज्ञपयति राजानम् । प्रजपयति । चकारः ‘णिचि च' इत्यस्य अनुकर्षणार्थः ॥ ३२ ॥
चहः शाठये । ३३। 'शाठ्य'अर्थस्य चहेः उपान्त्यस्य णौ परे हूस्वो भवति अम्-निपरे वा दीर्घः। .
चहयति । चहचहम् , चाहंचाहम् । अचहि, अचाहि । शाठ्ये इति किम् ? चहचहम् । अचहि । कथादित्वात् सिद्धे दीर्घार्थं वचनम् ॥ ३३ ॥
१ णिचि यम एव इति नियमार्थं व्याख्येयम् । तेन णिचि अन्येषां नैतद् विधानम् । २ झपयति शरान् व्याधः' इति शाकटायने ४।१।२०५। ज्ञपयति तेजयति-तीक्ष्णान् करोति-इति
भावः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org