________________
२४० ] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् । घृतं विलीनयति । घृतं विलालयति । स्नेहद्रवे इति किम् ? अयो बिलालयति ॥२१॥
लः लक् । २२ । 'ला'रूपस्य स्नेहद्रवे गम्यमाने लक् आगमो वा भवति ।
धृतं विलालयति । घृतं विलापयति । स्नेहवे इति किम् ! जटाभिः आलापयते ॥ २२ ॥
पातेः । २३ । पातेः णौ परे लक् आगमो भवति । पालयति ॥ २३ ॥
वे-व्या-पा-हा-शा-छा-सः यक् । २४ । एषां णौ परे यक् आगमो. भवति ।
वाययति । व्याययति । 'पा पाने'-पाययति । 'पै' इत्यस्य न भवति लाक्षणिकत्वात् । ह्वाययति । शाययति । छाययति । साययति ॥ २४ ॥
अर्ति-ही-ब्ली-री-क्नूयी-क्ष्मायि-आताम् पक् । २५ । 'अति'आदीनाम् आकारान्तानां च णौ परे पक् आगमो भवति ।
अर्पयति । हेपयति । ब्लेषयति । रेपयति । क्नोपयति । क्षमापयति । दापयति । क्रापयति । बहुवचनम् री रीङोः लाक्षगिकआदन्तानां च परिग्रहार्थम् । अर्तेः 'तिप्निर्देशात् यङ: लुचि न भवति-अरियारयति ॥ २५ ॥ हस्वः घटादेः उपान्त्यस्य स्वरस्य अम्-ौ तु वा दीर्घः । २६ ।
घटादेः उपान्त्यस्य स्वरस्य हूस्वो भवति अम्-जिपरे तु वा दीर्घः ।
घटयति । घटंघटम् , घाटघाटम् । अघटि, अघाटि । एवम् व्यथयति इत्यादि । भ्वादिअन्तर्गणो घटादिः ॥ २६ ॥
अमः अकमि-अमि-चमः । २७ । 'अम्'अन्तस्य 'कम्'आदिवर्जितस्य धातोः उपान्त्यस्य गो परे हूस्वो भवति अम्भिपरे तु वा दीर्घः ।
रमयति । गमयति । णम्-निपरे-रमरमम् , रामरामम् । अरमि, अरामि । एवं सर्वत्र अपि उदाहार्यम् । अकमि-अमि-चमः इति किम् ? कामयति। आमयति । चामयति । चामयति ॥ २७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org