SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ आख्याते नवमः पादः [ २३९ अज्ञानार्थस्य सिध्यतेः णौ परे आकारो भवति । मित्रं साधयति । अज्ञाने इति किम् ? तपः तापसं सेधयति ॥ १३ ॥ . चि-स्फुरोः वा । १४ । अनयोः णौ आकारो भवति वा । . चापयति, चाययति । विस्फारयति, विस्फोरयति ।। १४ । वेतेः प्रजने । १५ । वेतेः प्रजनार्थस्य णौ आकारो वा भवति । . पुरोवातः गाः प्रवापयति-गर्भ ग्राहयति इत्यर्थः-प्रवाययति ॥ १५ ॥ रुहः पः । १६ । रुहेः णौ परे पकारः अन्तादेशो वा भवति । रोपयति, रोहयति तरुम् ॥ १६ ॥ वः विधूनने जक् । १७ । विधूनने वर्तमानस्य 'वा' धातोः णौ परे जक् आगमो भवति । पक्षेण उपवाजयति । विधूनने इति किम् ? 'ओवै शोषणे' केशान् आवापयति ॥ १७॥ शदेः अगतो त् । १८ । शदेः अगत्यर्थस्य णो परे तकारः अन्तादेशो भवति । शातयति । अगतौ इति किम् ? गाः शातयति ॥ १८ ॥ स्फायः व् । १९। स्फायः णौ परे वकारः अन्तादशो भवति । स्फावयति ॥ १९ ॥ प्रोड्-धूनोः नक् । २० । अनयोः णौ परे नक् आगमो भवति । .. प्रीणयति । धूनयति ॥ २० ॥ लियः वा स्नेहद्रवे । २१ । लियः स्नेहद्रवे गम्यमाने णौ परे नक् आगमो भवति वा । १ तापसः सिध्यति- जानीते ज्ञानेन' इति वाक्यं बोध्यम् । २ प्रजनम्-गर्भग्रहणम् । ३ शोषयति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy