________________
२३८ ] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् ।
निमाय । निमाता । प्रमाय । प्रमाता । अखल्-अच्-अलि इति किम् ? दुर्निमयः । दुष्प्रमयः । अनुबन्धनिर्देशात् यङः लुचि न भवति । मेमेति । देवादिकस्य च कण्ठ्यङकारान्तस्य मेता ॥ ७ ॥
लीङ्-लिनोः वा । ८। अनयोः यपि खल-अच्-अल्वर्जिते च अङ्किति प्रत्यये विषयभूते आकारो वा भवति ।
विलाय, विलीय । विलाता, विलेता । अखल् अच्-अलि इति किम् ? सुविलयः । विलयः । अनुबन्धनिर्देशात् यङः श्लुचि न भवति लेलेति । 'ली द्रवीकरणे' इत्यस्य च यौजादिकस्य–विलयति ॥ ८ ॥
पूजा-प्रलम्भ-अभिभवे णौ ।९। 'पूजा आदौ अर्थे वर्तमानयोः लीङ् लिनोः णौ परे आकारः अन्तादेशो भवति ।
जटाभिः आलापयते-आत्मानं पूजां प्रापयति इत्यर्थः । कः त्वाम् उल्लापयति ? । श्येनः वर्तिकाम् उल्लापयति-अभिभवति इत्यर्थः । पूजा-प्रलम्भ-अभिभवे इति किम् ? घृतं विलाययति ॥ ९ ॥
स्मिङः प्रयाक्तुः । १०। विस्मये प्रयोक्तृहेतुके वर्तमानस्य स्मिङः णौ परे आकारः अन्तादेशो भवति ।
जटिलः विस्मापयते । प्रयोक्तुः इति किम् ? कुञ्चिकया एनं विस्माययति । अनुबन्धोपादानात् यङः 'लुचि न भवति-विसेष्माययति ॥ १० ॥
बिभीतेः स्वार्थे भीष च । ११।। __बिभीतेः प्रयोक्तुः सकाशात् स्वार्थे वर्तमानस्य णौ परे आकारः अन्तादेशो भवति भीष् च ।
___ जटिलो भापयते भीषयते वा । प्रयोक्तुः इति किम् ? कुञ्चिकया एनं भाययति । 'तिप्'निर्देशात् यङः *लुचि न भवति-बेभाययति ॥ ११ ॥
___ क्री-जि-इङः । १२। एषां णौ परे आकारः अन्तादेशो भवति । कापयति । जापयति । अध्यापयति ॥ १२ ॥
सिध्यते: अज्ञाने १३ । १ "मीच हिंसायाम्" इत्यस्य धातोः । २ वचयति इत्यर्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org