SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ आख्याते नवमः पादः एचः अशिति आः। १ । धातोः एच्-अन्तस्य आकारः अन्तादेशो भवति, न तु शिति प्रत्यये परे । वाता । सुग्लः । धातोः इति किम् ? जग्ले । लाक्षणिकत्वात् इह न भवति । चेता । स्तोता ॥१॥ __ व्यत्रः अपरोक्षायाम् । २। व्येञः आकारो भवति न तु परोक्षायाम् । संव्याता । अपरोक्षायाम् इति किम् ? संविव्याय । संविव्ययिथ ॥ २ ॥ - स्फुर-स्फुलोः घनि । ३। अनयोः एचः घनि परे आकारो भवति । विस्फारः । विस्फालः । घञि इति किम् ? विस्फोलकः ॥ ३ ॥ वा अपगुरः णमि । ४ । 'अप'पूर्वस्य गुरः एचः णमि परे आकारो वा भवति । अपगारम् अपगारम् । अपगोरम् अपगोरम् । अस्यपगारम् अस्यपगोरम् युध्यन्ते ॥४॥ दीङः सनि । ५। दीङः सनि परे आकारः अन्तादेशो वा भवति । दिदासते, दिदीषते ॥ ५ ॥ यप्-अङ्किति । ६ । यपि अङ्किति प्रत्यये विषयभूते दीङः आकारः अन्तादेशो भवति । अवदाय । ईषद् उपदानम् । यप्-अङ्किति इति किम् ? दीनः । उपदेदीयते । अनुबन्धोपादानात् यङः लुचि न भवति । उपदेदेति ॥ ६ ॥ मित्र-मीञोः अखल-अच्-अलि । ७ । मिञ्-मीत्रोः यपि खल्-अच्-अल्वर्जिते च अङ्किति प्रत्यये विषयभूते आकारो वा भवति । १ असि+अपगारम् । असिः खङ्गः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy