SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ २३४ ] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् ' जुहुधि । विद्धि । हु-धुटोः परत्वेन हे विशेषणात् इह न भवति । रुदिहि ॥ ५४ ॥ शास्-अस्-हनः शाधि - एधि जहि । ५५ 'शास्' प्रभृतीनां ह्यन्तानां यथासंख्यं शाधि - एधि- जहि इत्येते आदेशा भवन्ति । शाधि । एधि । जहि ॥ ५५ ॥ प्रत्ययात् अतः श्लुक् । ५६ । धातोः परात् अदन्तात् प्रत्ययात् परस्य हे: श्लुग् भवति । भव । दिव्य । प्रत्ययात् इति किम् ? पापहि । अतः इति किम् ? आप्नुहि ॥ ५६ ॥ असंयोगात् उतः । ५७ । असंयोगात् परः यः उकारः तदन्तात् प्रत्ययात् परस्य हे लुग् भवति । सुनु । कुरु । असंयोगात् इति किम् ? आप्नुहि । प्रत्ययात् इति किम् ? युहि ॥५७॥ व-मि अपिति लुग् वा । ५८ । असंयोगात् परः यः उकारः तदन्तस्य अपिति वकारादौ मकारादौ च प्रत्यये परे लग् वा भवति । भवति । सुन्वः, सुनुवः । सुन्मः, सुनुमः । अपिति इति किम् ? सुनोति ॥ ५८ ॥ करोतेः ये च । ५९ । करोतेः परस्य उकारस्य यकारादौ वकार-मकारादौ च अपिति प्रत्यये परे लुग् Jain Education International कुर्युः । कुर्वः । कुर्मः ॥ ५९ ॥ अतः शिति उत् । ६० । शिति अपिति परे यः उकारः तस्य कार्यभूतः यः करोतेः अकारः तस्य उकारो भवति । कुरुत: । उतः कार्यत्वेन विज्ञानात् उकारलोपेऽपि भवति - कुर्यात् । शितः उत्वं प्रति निमित्तविज्ञानं किम् ? कुरु, पेरत्वे हि इह न स्यात् । अपिति इति किम् ? करोति ||६० || इनम्-अस्त्योः लुक् । ६१ । इनमः अस्तेश्च अतः शिति अपिति प्रत्यये परे लग् भवति । १ ' प्रत्यये परे विद्यमाने सति' इति वक्तव्ये इति भावः । 'कुर' इत्यत्र प्रत्ययः परो विद्यमानो नास्ति तथापि 'हि' प्रत्ययो निमित्तभूतस्तु वर्तते । For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy