SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ आख्याते अष्टमः पादः ब्रूञः ऊकारात् परस्य व्यञ्जनादेः पितः शितः प्रत्ययस्य ईट् भवति । ब्रवीति । अब्रवीत् । ऊतः इति किम् ? आत्थ । पितः इति किम् ? ब्रूतः ॥ ४७ ॥ यङ्-तु-रु-स्तोः बहुलम् । ४८ । यङ्लुगन्तात् तु-रु-स्तुभ्यश्च परस्य व्यञ्जनादेः पितः शितः प्रत्ययस्य ईट् भवति बहुलम् । नर्नृतीति, नर्नर्ति । कचिद् न भवति-वर्वर्ति । तवीति । वीति । स्तव्रीति । व्यञ्जनादेः इति किम् ? तवानि । पितः इति किम् ? नुतः । शितः इति किम् ? तुतोथ ॥ ४८ ॥ सः सिच्-अस्तेः दि-स्योः । ४९ । 'सिच्’अन्तात् धातोः अस्तेश्व सकारान्तात् परयोः दि-स्योः ईट् भवति । अकार्षीत् । अकार्षीः । आसीत् । आसीः । सः इति किम् ? अदात् । अभूत् ॥ ४९ ॥ अदः अटू । ५० । अत्तेः परयोः दि-स्यो शितोः अट् भवति । आदत् । आदः ॥ ५० ॥ रुद्रादेः ईट् च । ५१ । ‘रुद्’आदेः परयोः दि-स्योः शितोः ईटू चकारात् अट् च भवति । अरोदीत् | अरोदत् । अजक्षीत् । अजक्षत् । रुदादेः इति किम् ? अजागः ॥ ५१ ॥ अयव्यञ्जनादेः इट् । ५२ । रुदादेः परस्य यकारवर्जितव्यञ्जनादेः शितः परस्य इट् भवति । रोदिति । रुदितः । स्वपिति । श्वसिति । प्राणिति । जक्षिति । अयव्यञ्जनादेः इति किम् ? रुद्यात् । रुदन्ति । शितः इति किम् ? स्वप्नः ॥ ५२ ॥ [ २३३ ईश- ईड् स्वे-ध्वे स्व-ध्वमोः । ५३ । ईश- ईड्भ्यां परयोः वर्तमानासे ध्वयोः पञ्चमीस्व-ध्वमो इट् भवति । ईशिषे । ईशिध्वे । ईशिष्व । ईशिध्वम् । ईडिषे । ईडिध्वे । ईडिष्व । ईडिध्वम् । वचनभेदात् यथासङ्ख्याऽभावः ॥ ५३ ॥ हु-धुटोः हेः धिः । ५४ । जुहोते: धुडन्ताच्च परस्य हे ः धिः भवति । ३० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy