SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ २३२ 1 आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम । न द्वथुक्तेः शिति स्वरे । ४० । द्विरुक्तस्य धातोः उपान्त्यस्य इकः लघोः शित्ति स्वरादौ प्रत्यये परे गुणो न भवति । बेभिदीति । मोमुदीति । नतीति । द्वयुक्तेः इति किम् ? वेदानि । शिति इति किम् ? निनेजः । स्वरे इति किम् ? नेनेक्ति । उपान्त्यस्य इति किम् ? जुहवानि ॥४०॥ जुहोति-इणोः अपिति व्-यौ । ४१ । जुहोतेः इणश्च इकः अपिति शिति स्वरादौ प्रत्यये परे यथासंख्यं वकारयकारौ भवतः । जुह्वति । यन्तु । अपिति इति किम् ? अजुहवुः । जुहवानि ॥ ४१ ।। इकः । ४२। इको धातोः स्वरादौ अपिति प्रत्यये परे यः वा भवति । अधियन्ति, अधीयन्ति ॥ ४२ ॥ पिति उवर्णस्य अद्धैः औः व्यञ्जने । ४३ । अद्विरक्तस्य धातोः उवर्णस्य पिति शिति व्यञ्जनादौ प्रत्यये परे औः भवति । यौति । पिति इति किम् ? रुतः । अद्वेः इति किम् ? जुहोति । धातोः इति किम् ? सुनोति ॥ ४३ ॥ वा ऊर्णोः। ४४।। ऊोतेः अद्विरुक्तस्य ऊवर्णस्य पिति शिति व्यञ्जनादौ प्रत्यये परे औः वा भवति। प्रोर्णोति, प्रो#ति । अद्वेः इति किम् ? प्रोर्गोनोति ॥ ४४ ॥ न दि-स्योः । ४५ । दि-स्योः शितोः परयोः ऊर्णोतेः औः न भवति । प्रोर्णोत् । प्रोर्णोः ।। ४५ ॥ नात् परः व्यञ्जनादौ पिति शिति परे इकारो भवति । तृणेढि । व्यञ्जनादौ इति किम् ? तृणहानि । पिति इति किम् ? तृण्डः ॥ ४६ ॥ ऊतः ब्रुवः ईट् । ४७ । १ शाकटायनीये "तृणेह" ४।२।२४। इति सूत्रम् । हैमे 'तहः श्नात् ईत्" ।४।३१६२। इति सूत्रम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy