________________
आख्याते अष्टमः पादः
[ २३१ नि-प्रात् युजः शक्ये । ३२। नि-प्राभ्यां परस्य युजेः शक्ये अर्थे विहिते ध्यणि परे कुत्वं न भवति । नियोज्यः । प्रयोज्यः । शक्ये इति किम् ? प्रयोग्यः ॥ ३२ ॥
भुजः अदौ । ३३ । अद्यर्थस्य भुजे: घ्यणि कुत्वं न भवति । भोज्यम् अन्नम् । भोज्यं पयः । अदौ इति किम् ? भोग्यः कम्बलः ।। ३३ ।।
यजि-त्यजः । ३४ । अनयोः ध्यणि कुत्वं न भवति । याज्यम् । त्याज्यम् ॥ ३४ ॥
इकः णिति वृद्धिः । ३५ । धातोः इकः जिति णिति च प्रत्यये परे वृद्धिर्भवति । अकारि । कारयति । नाययति । लावयति ॥ ३५ ॥
पकि गुणः। ३६ । धातोः इकः पकि परे गुणः भवति । अर्पयति । रेपयति । क्नोपयति ॥ ३६॥
अकिल्लुग्धेतौ । ३७ । धातोः इकः प्रत्यये परे गुणो भवति नतु किति ङिति लुग्धेतौ च । कर्ता। चेता । स्तोता । अकिल्लुग्घेतौ इति किम् ? चिंतः । अशिश्रियत् । लोलुवः ॥३७॥
उ-श्नोः । ३८ । धातोः परयोः उ-श्नोः अकिल्लुग्घेतौ प्रत्यये परे गुणो भवति । तनोति । सुनोति । अकिल्लुग्घेतौ इति किम् ? तनुतः । सुनुतः ॥ ३८ ॥
लघोः उपान्त्यस्य । ३९ । धातोः उपान्त्यस्य इकः लघोः अकिल्लुग्घेतो प्रत्यये परे गुणो भवति ।
भेत्ता । गोप्ता । कय॑ति । लघोः इति किम् ? ईहते । उपान्त्यस्य इति किम् ? भिक्षते । अकिल्लुग्घेतौ इति किम् ? भिन्नः । सुत्वा । मरीमृजः ।। ३९ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org