________________
३३० ) आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् ।
'उद्ग' आदयः । २७ । 'उद्ग'आदयः कृतकत्वादयो निपात्यन्ते । ।
उब्जे: घञ्-उद्गः, अभ्युद्गः, समुद्गः । शोकः । श्रपाकः-कर्मणः अण् । मेघःअच् । नि-अवपूर्वस्य दहेः घञि संज्ञायाम्--निदाधः, अवदाघः असंज्ञायां तु निदाहः अवदाहः । वि-अयः-द्रु-स्तम्बेभ्यः परस्य हन्तेः 'स्थादिभ्यः' [
] इति करणे 'क' प्रत्यये विघनः, अयोधनः, द्रुधनः, स्तम्बधनः । 'घन'शब्दः स्वभावात् पुंसि नपुंसके तेन स्त्रियाम् -स्तम्बन्ना इत्येव । परिहन्यते अनेन परिघः । मूर्ति-निचित-अभ्रेषु हन्तेः घनि वृदयभावश्च-दधिघनः, घनाः केशाः, घनः अभ्रम् । निघाः वृक्षाः समारोहपरिणाहा इत्यर्थः । उद्धः प्रशस्तः । संघः प्राणिसमूहः । उदुनः काष्ठच्छेदनः कुट्टनाधारः । अपघनः शरीरावयवः । उपन्नः आसन्नः । 'प्र'पूर्वस्य गृहांशे वाच्ये प्रघणः, प्रघाणः । 'अन्तः'शब्दपूर्वस्य देशे अन्तर्घनः अन्तर्घणः । 'मूर्ति' आदिभ्यः अन्यत्र घातः इत्यादि ।। २७॥
न गतौ वश्चः । २८ । वञ्चेः गत्यर्थस्य कुत्वं न भवति । "वञ्चं वञ्चन्ति वाणिजाः" गतौ इति किम् ? वैकं काष्ठम् ।। २८ ॥
यजेः यज्ञाले । २९ । यजेः यज्ञाङ्गे कुत्वं न भवति । याजः । प्रयाजः । यज्ञाङ्गे इति किम् ? यामः । प्रयागः ॥ २९ ॥
घ्यणि आवश्यके । ३० । आवश्यके अर्थे विहिते ध्यणि कुत्वं न भवति । अवश्यपाच्यम् । आवश्यके इति किम् ? पाक्यम् ॥ ३० ॥
वचेः अनाम्नि । ३१। वचेः धातोः अनाम्नि विषये ध्यणि कुत्वं न भवति । वाच्यम् । अनाम्नि इति किम् ? वाक्यम् ॥ ३१ ॥ १ “ पश्यैते व्याधवाण्यसंकुले वित्तवत्तमाः ।
रात्रावपि महारण्ये वञ्च वञ्चन्ति वाणिजाः" ॥ इति संपूर्ण पद्यं हैमे - ४११।११३। अत्र वञ्चम् गन्तव्यस्थानम् , वश्चन्ति गच्छन्ति - इति तात्पर्यम् । काशिकायां तु 'वच्य पञ्चन्ति वणिजः" इति मुद्रितः पाठः-७१३१६३।। २ वङ्कम् वक्रम् इत्यर्थः । प्राकृतभा. वंकं वकं वा । गुज• भाषायाम् यांकु इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org