________________
आख्याते अष्टमः पादः
[२२९ न तिकि दीर्घश्च । १९ । 'यम्'आदीनां तिकि परे लुग् दीर्घश्च न भवति । यन्तिः । रन्तिः । तन्तिः ॥ १९ ॥
. आः खनि-सनि-जनः । २० । एषाम् अन्तस्य 'धुट्'आदौ किति प्रत्यये परे आकारो भवति । खातः । सातः । जातः। किति इति किम् ? चङ्खन्ति । धुटि इति किम् ? जनित्वा ॥२०॥
सनि । २१ । खनि-सनि-जनाम् अन्तस्य 'धुट्'आदौ सनि परे आकारो भवति । सिषासति । धुटि इति किम् ? सिसनिषति ॥ २१ ॥
ये वा । २२। खनि-सनि-जनाम् अन्तस्य यकारे किति परे आकारो वा भवति ।
खायते, खन्यते । सायते, सन्यते । जायते, जन्यते। चाखायते चङ्खन्यते । ङ्किति इति किम् ? खान्यम् ॥ २२ ।।
___ क्ये तनः। २३ । तनोते: क्ये परे आकारो वा भवति । तायते, तन्यते ॥ २३ ॥
सनः तो तिकि । २४ । सनः तिकि परे तो लुक्-आतौ भवतः वा । सतिः । सातिः ॥ २४ ॥
वनि आङ् पञ्चमस्य । २५ । पञ्चमान्तस्य धातोः वनि प्रत्यये परे आकारः अन्तादेशः भवति । विजावा । ध्वावा ॥ २५ ।।
क्ते अनिट: च-जः कुः घिति । २६ । 'क्त'प्रत्यये अनिटः धातोः च-जान्तस्य घिति प्रत्यये परे कवर्गादेशो भवति । पाकः । त्यागः । क्ते अनिटः इति किम् ? संकोचः । कूजः ॥ २६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org