________________
५२८ ] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् । गूनः । गूनवान् । क्षेः अभाव-कर्मणो:-क्षीणः । क्षीणवान् । भाव-कर्मणोः तु न भवतिक्षितम् अस्य । दैन्य-आक्रोशयोः वा-क्षितकः, क्षीणकः । क्षितायुः भव, क्षीणायुः भव । ऋ-ही-घ्रा-ध्रा-त्रा-उन्द-नुद-विन्तेः वा-ऋणम् ऋतम् । हीणः, हीतः । घ्राणः, प्रातः । ध्राणः, । ध्रातः । त्राणः, त्रातः । समुन्नः, समुत्तः । नुन्न, नुत्तः । विनम् , वित्तम् । 'भित्तम्' शकलपर्यायश्चेत् । अन्यत्र भिन्नम् । वेदेः 'लाभ'अर्थात् क्ते वित्तम् धनम् प्रतीतम् वा इत्यर्थः । अन्यत्र विन्नम् ।। १२ ॥
ऋताम् कृिति इर् । १३ । ऋदन्तस्य धातोः किति ङिति च प्रत्यये परे ऋतः इर् भवति । तीर्णः । किरति । जिहीर्षति । बहुवचनं लक्ष्यार्थम् ॥ १३ ॥
पु-वात् उर् । १४ । पवर्गात् वकारात् च परस्य ऋतः किति ङिति च प्रत्यये परे उर् भवति ।
पुः । पुपूर्षति । प्रावुवूर्षति ॥ १४ ॥ यमि-रमि-नमि-गमि-हनि-मनि-वनति-तनादेः लुक् धुटि । १५ । 'यम्'आदीनाम् 'तन्'आदीनां च अन्तस्य 'धुट्'आदौ किति प्रत्यये परे लुग् भवति ।
यतः । रतः । नतः । गतः । हतः । मतः । वतः । ततः । सतः । 'तिप्'-गणनिर्देशात् यङः श्लुचि न भवति-वंवान्तः । तन्तान्तः । 'मनि' ग्रहणम् 'मन्यति'अर्थम् । धुटि इति किम् ? यम्यते । किति इति किम् ? यन्ता ॥ १५ ॥
यपि । १६ । 'यम्'आदीनां यपि परे लुग् भवति । प्रहत्य । प्रमत्य ॥ १६ ॥
मः वा । १७ । 'यम्'आदीनां मकारस्य यपि परे लुग् वा भबति । प्रयत्य, प्रयम्य । विरत्य, विरम्य ॥ १७॥
'गम्'आदीनाम् क्वौ । १८ । 'गम्'आदीनां क्वौ परे लुग् अन्तादेशो भवति ।
'जनगत् । सुयत् । सुवत् । सुमत् । परीतत् ॥ १८ ॥ . १ जनपदगत्' इति शाकटायनीये ४।१।२६४। सूत्रे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org