________________
आख्याते अष्टमः पादः ब्जञ्जनात् यत्रः आतः अख्या-ध्यः । ७। ख्या-ध्यावर्जस्य धातोः व्यञ्जनात् परः यः यञ् तस्मात् परात् आकारात् परस्य क्त-क्तवत्वोः तकारस्य नकारो भवति ।
स्त्यानः । स्त्यानवान् । व्यञ्जनात् इति किम् ? यातः । यत्रः इति किम् ? स्नातम् । आतः इति किम् ? च्युतम् । अख्या-थ्यः इति किम् ? ख्यातः । ध्यातः । 'धातोः व्यञ्जनात्' इति विशेषणात् इह न भवति–निर्यातः ॥ ७ ॥
श्यः अस्पर्शे। ८। श्यायतेः परस्य क्त-क्तवत्वोः तकारस्य अस्पर्शे नकारो भवति । शीनः । शीनवान् । अस्पर्शे इति किम् ? शीतः स्पर्शः । शीतः वायुः ॥ ८ ॥
वा प्रस्त्यः मः।९। प्रपूर्वात् स्त्यायतेः परस्य क्त-क्तवत्वोः तकारस्य मकारो वा भवति । प्रस्तीमः । प्रस्तीमवान् । प्रस्तीतः । प्रस्तीतवान् ॥ ९ ॥
क्षः।१०। क्षायतेः परस्य क्त-क्तवत्वोः तकारस्य मकारो नित्यं भवति । क्षामः । क्षामवान् ॥ १० ॥
शुषि-पचेः क्-वम् । ११ । शुषि-पचिभ्यां परस्य क्त-क्तवत्वोः तकारस्य यथासंख्यं 'क्' 'व्' इति आदेशौ भवतः । शुष्कः । शुष्कवान् । पक्वः । पक्ववान् ।। ११ ॥
___ 'सिन आदि बहुलम् । १२ । 'सिन'आदिः बहुलं क्त-क्तवतुअन्तो निपात्यते ।
सिनोतेः कर्मकर्तरि ग्रासे-सिनः ग्रासः स्वयमेव । अन्यत्र न भवति-सितः ग्रासः चैत्रेण । सितं कर्म स्वयमेव । पू-दिवि-अश्चिभ्यः नाश-चूत-अनपादानेषु---पूनाः यवाः। आधुनः चैत्रः । समक्नौ न शकुनेः पादौ । 'नाश'आदिभ्यः अन्यत्र न-पूतं धान्यम् । उदक्तम् उदकं कूपात् । 'नि'पूर्वात् बातेः अवाते कर्तरि क्तस्य नकारः -निर्वाणः मुनिः । वाते तु कर्तरि न भवति-निर्वातः वातः । निर्वातं वातेन । दु-ग्वोः दीर्घश्च-दूनः । दूनवान् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org