SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ आख्याते अष्टमः पादः [ २३५ रुन्धः । रुन्धन्ति । स्तः । सन्ति । अतः इति किम् ? आस्ताम् ॥ ६१॥ द्वथुक्ति-जक्षपश्चक-श्नः आतः। ६२ । द्वयुक्तेः जक्षपञ्चकस्य श्नश्च आकारस्य अपिति शिति प्रत्यये परे लुग् भवति । मिमते । दरिद्रति । क्रीणन्ति । अपिति इति किम् ? अजहाम् । अक्रीणाम् ॥६२॥ ईः अदः व्यञ्जने । ६३ । अदासंज्ञकस्य श्नश्च आकारस्य व्यञ्जनादौ शिति अपिति परे ईकारो भवति । लुनीते । लुनीतः । दाम्-दैमोः यङः लुचि दादीतः । अदः इति किम् ? दध्मः । व्यञ्जने इति किम् ? मिमते । अपिति इति किम् ? दधाति ॥ ६३॥ इः दरिद्रः । ६४। दरिद्रातेः आतः व्यञ्जनादौ शिति अपिति परे इकारो भवति । दरिद्रितः । व्यञ्जने इति किम् ? दरिद्रति ॥ ६४ ॥ भियः वा । ६५ । बिभीतेः व्यञ्जनादौ शिति अपिति प्रत्यये परे इः वा भवति । बिभितः, बिभीतः ॥ ६५ ॥ जहातेः । ६६ । जहातेः व्यञ्जनादौ शिति अपिति प्रत्यये परे इः वा भवति । जहितः, जहीतः । 'तिप्'निर्देशात् यङः लुचि न भवति ॥ ६६ ॥ - आ च हो । ६७ । जहातेः हौ परे आकारः इकारश्च वा भवति । जहाहि, जहिहि, जहीहि ॥ ६७ ॥ । यि लुक । ६८। यकारादौ शिति प्रत्यये परे जहातेः अन्तस्य लुग् भवति । जह्यात् ॥ ६८ ॥ ___ ए शीङः । ६९। शीङः शिति अपिति प्रत्यये परे एकारः अन्तादेशो भवति । शेते। अनुबन्धोपादानात् यङः लुचि न भवति-शेशीतः। शिति इति किम् ? शिश्ये Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy