________________
२२२ ] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् ।
गमः । ३१ । गमेः परस्य सकारादेः अशितः प्रत्ययस्य इट् वा भवति । संजिगंसिता, संजिगमिषिता ॥ ३१ ॥
परस्मै । ३२। गमेः परस्य सकारादेः अशितः प्रत्ययस्य परस्मैपदे इट् भवति । गमिष्यति । अगमिष्यत् ॥ ३२ ॥
न वृद्भयः । ३३ । परस्मैपदनिमित्तात् 'वृत्'आदेः परस्य अशितः प्रत्ययस्य इट् न भवति । वय॑ति । स्यंत्स्यति । परस्मै इति किम् ? वर्तिष्यते । बुतादिअन्तर्गणः वृतादिः
र
गम्-स्नोः अनाम-आत्मने । ३४ । गमि-स्नुभ्याम् परस्य अशितः प्रत्ययस्य इट् न भवति अनामघातोः संबन्धिनि आत्मनेपदे सति ।
गंस्यते। गंस्यमानः । अधिजिगांसिष्यमागः । अनाम-आत्मने इति किम् ? संजिगमिषिता । प्रस्नवितव्यम् । 'अनाम'ग्रहणं किम् ? जिगमिषत्रीयते ॥ ३४ ॥
__ क्रमः । ३५। क्रमः परस्य व्यञ्जनादेः अशितः प्रत्ययस्य इट् न भवति अनामधातोः संबन्धिनि आत्मनेपदे सति । प्रकंस्यते । अनात्मने इति किम् ? क्रमिता ॥ ३५ ॥
तुः। ३६ । अनात्मनेपदविषयात् क्रमेः परस्य 'तृ'प्रत्ययस्य इट् न भवति । क्रन्ता । अनात्मने. इति किम् ? क्रमिता। क्रमित्रीयते ॥ ३६ ।
विन्द-विद्य-हनि-वसि-शकि-प्रच्छ-घसः । ३७। एभ्यः विहितस्य व्यञ्जनादेः अशितः प्रत्ययस्य इट् न भवति । विन्द-वेत्ता । विद्य-वेत्ता । हन्ता । वस्ता। शक्ता । प्रष्टा । जिघन्सति ॥ ३७॥
मुचि-रिचि-सिचि-विचि-पचि-वचेः । ३८। एभ्यः व्यञ्जनादेः अशितः प्रत्ययस्य इट् न भवति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org