________________
आख्याते सप्तमः पादः
[ २२१ इव्-ऋध-दम्भ-भ्रस्ज-सनि-तनि-पति-ज्ञपि-श्रि-यु-ऊर्ण-भर-दरिद्रा-स्तृ--
ऋतः सन् । २५ । ___ 'इव् अन्तात् 'ऋध्'आदिभ्यः ऋदन्तेभ्यश्च परस्य सन् इट् वा भवति । दुषति, दिदेविषति । ईर्सति, अर्दिधिषति । धीप्सति, दिदम्भिषति । बिभक्षति, बिभर्जिषति । सिषासति, सिसनिषति । तितांसति, तितनिषति । पित्सति, पिपतिषति । ज्ञीप्सति, जिज्ञपयिषति । शिश्रीषति, शिश्रयिषति । युयूषति, यियविषति। प्रोणुनूषति, प्रोणुनविषति । बुभूषति, बिभरिषति । दिदरिद्रासति, दिदरिद्विषति । सुस्तूपति, सिस्तरिषति । प्रावुर्षति, प्राविवरिषति। वुवूर्षते, विवरिषते। तितीर्षति, तितरिषति । 'चिकीर्षति' इत्यादौ लाक्षणिकत्वात् न भवति ॥ २५ ॥
ऋ-स्मि-पूङ्-अञ्-अशो-कृआदेः । २६ । पृथग्योगात् वा इति निवृत्तम् । एभ्यः परस्य सनः इट् भवति ।
अरिरिषति । सिस्मयिषते । पिपविषते । अञ्जिर्जिषति । अशिशिषते । चिकरीषति । जिगरीषति । तुदादिअन्तर्गणः 'कृ'आदिः ॥ २६ ॥
हन्-ऋतः स्यस्य । २७ । हनेः ऋदन्तात् च परस्य 'स्य'शब्दादेः अशितः प्रत्ययस्य इट् भवति । हनिष्यति । करिष्यति ॥ २७ ॥
घस-एकस्वर-आतः क्वसः । २८ । घसेः एकस्वरात् 'आत्'अन्तात् च परस्य च क्वसोः अशितः इट् भवति ।
जक्षिवान् । आशिवान् । ययिवान् । घस्-एकस्वर-आतः इति किम् ? बिभिद्वान् ॥ २८ ॥
गम्-हन्-विद-विश-दृशः वा । २९ । एभ्यः क्वसौ वा इट् भवति ।
जगन्वान् , जग्मिवान् । जघन्वान् , जनिवान् । विविद्वान् , विविदिवान् । विविश्वान् , विविशिवान् । ददृश्वान् , ददृशिवान् ॥ २९ ।।
_ 'कृत्'आदेः सः असिचः । ३० । 'कृत्'आदेः परस्य सकारादेः असिचः अशितः प्रत्ययस्य इट् वा भवति ।
कर्त्यति, कर्तिष्यति । नय॑ति, नर्तिष्यति । असिचः इति किम् ? अकर्तीत् । कृत् चुत् कृत् तृद् नृत् इति 'कृत्'आदिः ॥ ३० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org