________________
२२० ] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् ।
हृषेः केश-लोम-विस्मय-प्रतीपाते-हृष्टाः हृषिताः केशाः लोमानि वा । हृष्टः हृषितः देवदत्तः विस्मितः इत्यर्थः । हृष्टाः हृषिताः दन्ताः-प्रतिहता इत्यर्थः ।
शकेः कर्मणि-शक्तः शकितो वा घटः कर्तुम् । कर्मणः अन्यत्र शक्तश्चत्रः ।
णौ दान्त-शान्त-पूर्ण-दस्त-स्पष्ट-च्छन्न-ज्ञप्ताः वा । दान्तः, दमितः । शान्तः, शमितः । पूर्णः, पूरितः। दस्तः, दासितः । स्पष्टः, स्पाशितः । छन्नः, छादितः । ज्ञप्तः, ज्ञपितः॥१८॥
जू-व्रश्चोः क्त्वः । १९ । आभ्यां परस्य क्त्वाप्रत्ययस्य इट् भवति । जरित्वा । वृश्चित्वा । 'ज'इति ऋणातेः ग्रहणम् न जृषः सानुबन्धत्वात् ॥ १९ ॥
'उत्'इतः वा । २० । 'ऊत्'इतः क्त्वाप्रत्ययस्य वा इट् भवति । शान्त्वा, शमित्वा ॥ २० ॥
क्त-क्त्वाम् क्षुध-वसः । २१ । क्षुध-वसिभ्यां परयोः क्त-क्तवत्वोः क्त्वाप्रत्ययस्य च इट् भवति । क्षुधितः । क्षुधितवान् । क्षुधित्वा । उषितः । उषितवान् । उषित्वा ॥ २१ ॥
लुभि-अश्वेः विमोह-अर्च । २२ । लुभि-अश्चिभ्यां यथासंख्यं विमोह-अर्चाअर्थाभ्यां परेषां क्त-क्तवतु-क्वाम् इट् भवति ।
विलुभितः। विलुभितवान् । लुभित्वा । अञ्चितः गुरुः। अञ्चितवान् । अञ्चित्वा गुरुम् । विमोह-अर्चे इति किम् ? लुब्धो जाल्मः । उदक्तम् उदकं कूपात् ॥ २२ ॥
पूङ्-क्लिशिभ्यो वा । २३ । पूङ्-क्लिशिभ्यां परेषां क्त-क्तवतु-क्त्वाम् इट् वा भवति ।
पूतः, पूतवान् , पूत्वा, पवितः, पवितवान् , पवित्वा । क्लिष्टः, क्लिष्टवान् , क्लिष्ट्वा, क्लिशितः, क्लिशितवान् , क्लिशित्वा । बहुवचनम् क्लिशिद्वयस्यापि परिग्रहार्थम् ॥ २३ ॥
सह-लुभ-इच्छ-रुष-रिषः तः । २४ । एभ्यः परस्य तकारादेः अशितः प्रत्ययस्य इट् वा भवति ।
सोढा, सहिता । लोब्धा, लोभिता। एष्टा, एषिता । रोष्टा, रोषिता । रेष्टा, रेषिता । तः इति किम् ? सहिष्यते ॥ २४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org