________________
आख्याते सप्तमः पादः
'अभ्यर्ण' आदि: । १४ ।
'अभ्यर्ण' आदय : 'क्त' अन्ता यथादर्शनम् 'इट्' आदिअभावेन निपात्यन्ते ।
'अभि' पूर्वस्य अर्देः - अभ्यर्णः अविदूरः । अन्यत्र न भवति - अभ्यर्दितः शीतेन । दृहेः दृंहेः वा दृढः स्थूलः बली वा । अन्यत्र दृहितम् दृंहितम् वा । कषः कृच्छ्र-गहने-कष्टम् दुःखम् । कष्टं वनम् । कृच्छ्र- गहनाभ्याम् अन्यत्र कषितः । घुषः अविशब्दे - घुष्टा रज्जुः । अन्यत्र घुषितं वाक्यम् । शसि धृषः प्रगल्भे- शस्तः धृष्टः - प्रगल्भ इत्यर्थः । अन्यत्र शसितः, धर्षितः । लगतेः लग्नम् | म्लेच्छतेः म्लिष्टम् - अस्पष्टम् । स्वनेः स्वान्तं मनः । ध्वनेः ध्वान्तं तमः । क्षुभेः मन्थे - क्षुब्धः समुद्रः । क्षुब्धं वल्लवैः । रिभेः सौत्रस्य रेभृङो वा 'वि' पूर्वस्य - विरिब्धः स्वरः । फणेः फाण्टम् यद् अश्रपितं पिष्टम् उदकसंपर्कमात्रात् विभक्तर सकषायम् । अपरे "अग्निना तप्तं यत् किञ्चिद् उष्णं तत् फाण्टम् ” [ ] इत्याहुः | वाहेः बाढम्-भृशम् । ‘परि' पूर्वस्य वृहे: वृहेर्वा परिवृढः प्रभुः । क्षीवृञः केवलस्य क्षीवः । लावृङ: ‘उत्’पूर्वस्य उल्लाघः कृशः । केवलस्य 'परि' पूर्वस्य च कृशः कृशः, परिकृशः । ‘ञिफला' इत्येतस्य केवलस्य 'उत्' पूर्वस्य 'सम' पूर्वस्य च फुल्लः उत्फुल्लः संफुल्लः । अर्थान्तरे उपसर्गाधिक्ये च न भवति-लगितः । प्रक्षीवितः । प्रोल्लाधितः ॥ १४ ॥
'आत्' इतः । १५ ।
'आत्' इतः धातोः परयोः क्तक्तवत्वोः इट् न भवति ।
मिन्नः । मिन्नवान् ॥ १५ ॥
वा भाव-आरम्भे । १६ । 'आत्' इतः परयोः भाव - आरम्भार्थयोः क्तक्तवत्वोः इट् वा भवति ।
मिन्नम् मेदितम् अनेन । प्रमिन्नः प्रमेदितः । प्रमिन्नवान् प्रमेदितवान् ॥ १६ ॥ जप-श्वस वम-रुषि-अम-स्वर- संघुष-आस्वनः । १७ ।
एभ्यः परयोः क्तक्तवत्वोः इट् वा भवति ।
जप्तः, जपितः । श्वस्तः, श्वसितः । वान्तः, वमितः । रुष्टः, रुषितः । अभ्यान्तः, अभ्यमितः । तूर्णः, त्वरितः । संघुष्टौ संघुषितौ । अविशब्देऽपि परत्वात् अयमेव विकल्पः । आस्वान्तम्, आस्वनितम् । एवम् क्तवति अपि उदाहार्यम् ॥ १७ ॥
'अपचित' आदिः । १८ ।
'अपचित'आदिः यथादर्शनम् 'इट् 'आदिअभावेन वा निपात्यते । त्अपा चाये: अपचितः, अपचायितः ।
Jain Education International
[ २१९
For Private & Personal Use Only
www.jainelibrary.org